This page has been fully proofread once and needs a second look.

बावान् इक्षुधन्वा मन्मथः तव जङ्घे पश्यन्नाकृतिसाम्याज्जग-
न्मोहनत्वाच्च स्वशरधी स्वकीयाविषुधी इति संदिहान:नः तत्सं-
बेदेहनिवृत्त्यर्थं निजशरान् अभितः ज ङ्घे परितः अङ्किघ्रिकटको-
द्गतरुक्छलेन न्यस्य निधाय आलोकते । स्वकीयशरैः प्रमाण-
तः साम्ये स्वकीयाविषुधी इति निश्चेतुं शक्यमित्याशयेनेति
भावः । अत्र सापह्नत्रोत्प्रेक्षा । सा च व्यञ्जकाप्रयोगाद्गम्या ।
कुवलयानन्दोक्तप्रकारेण सापह्नवातिशयोक्तिर्वा ॥ ५४ ॥
 
जानुद्वयं तव जगत्त्रनाथ मन्ये
मारस्य केलिमणिदर्पणतामुपेतम् ।
आलोकगन्यन्यदवदातमनोज्ञवृत्तं
रूपं निजं कलगने विपरीतमेषः ॥ ५५ ॥
 
हे जगत्त्रयनाथ तव जानुद्यं मारस्य मन्मथस्य केलि-
मणिदर्पणतां क्रीडार्थमणिमयादर्शताम् उपेतं प्राप्तं मन्ये तर्क-
यामि । अवदातमनोज्ञवृत्तमतिनिर्मलमनोहरवृत्ताकारं यज्जानु-
ह्द्वयमालोकयन्पश्यन् एष मन्मथ: निजमात्मीयं रूपं विपरीतं
कलयते सुन्दरमिति प्रसिद्धमात्मीयं रूपं गर्हितत्वेन तद्विपरीतं
मन्यते । दर्पणं पश्यन्नपि तत्र प्रतिबिम्बितं स्वं रूपमवलोक-
मानः स्वयं प्राङ्मुखस्तद्वैपरीत्येन प्रत्यङ्मुखं पश्यतीति भावः ।
यो नरः परेषां मारको हिंसःस्रः स विशुद्धसकलजनरञ्जनचरि-