This page has not been fully proofread.

७८
 
बान् इक्षुधन्वा मन्मथः तव जडे पश्यन्नाकृतिसाम्याज्जग-

न्मोहनत्वाच स्वशरधी स्वकीयाविषुधी इति संदिहान: तत्सं-

बेनिवृत्त्यर्थं निजशरान् अभितः परितः अङ्किटको-

इतरुक्छलेन न्यस्य निधाय आलोकते । स्वकीयशरैः प्रमाण-

तः साम्ये स्वकीयाविषुधी इति निश्चेतुं शक्यमित्याशयेनेति

भावः । अत्र सापह्नत्रोत्प्रेक्षा । सा च व्यञ्जका प्रयोगाद्गम्या ।

कुवलयानन्दोक्तप्रकारेण सापहवातिशयोक्तिर्वा ॥ ५४ ॥

 
जानुद्वयं तव जगत्त्रपनाथ मन्ये

मारस्य केलिमणिदर्पणतामुपेतम् ।

आलोकगन्दवहा नमनोज्ञवृत्तं
 

रूपं निजं कलगने विपरीतमेषः ॥ ५५ ॥
 

 
हे जगत्त्रयनाथ तव जानुद्रयं मारस्य मन्मथस्य केलि-

मणिदर्पणतां क्रीडार्थमणिमयादर्शताम् उपेतं प्राप्तं मन्ये तर्क-

यामि । अवदातमनोज्ञवृत्तमतिनिर्मलमनोहरवृत्ताकारं यज्जानु-

ह्वयमालोकयन्पश्यन् एष मन्मथ: निजमात्मीयं रूपं विपरीतं

कलयते सुन्दरमिति प्रसिद्धमात्मीयं रूपं गर्हितत्वेन तद्विपरीतं

मन्यते । दर्पणं पश्यन्नपि तत्र प्रतिबिम्बितं स्वं रूपमवलोक-

मानः स्वयं प्राङ्मुखस्तद्वैपरीत्येन प्रत्यङ्मुखं पश्यतीति भावः ।

यो नरः परेषां मारको हिंसः स विशुद्धसकलजनरञ्जनचरि-