This page has been fully proofread once and needs a second look.

नखप्रक्षालनजले गङ्गारूपे लग्नाः तेषां नखानां कान्तिलेश-
कणिका:काः जलधिं प्रविष्टाः समुद्रं प्राप्ताः ता एव कणिका:काः
तस्य जलधेर्मथनेन घनीभवन्त्यः सान्द्रतां प्राप्ताः नूनं
समुद्रसंबन्धिनो नवनीतस्य चन्द्रस्य पदं प्राप्ताः चन्द्र-
रूपेण परिणता इत्यर्थः । अत्र भगवत्पादाम्बुजक्षालनतो-
वरूपायां दिव्यसरिति अलक्तकरसादिवल्लमाग्नानां तया सह
समुद्रं प्रविष्टानां तन्नखकान्तिलेशकणिकानां परिणामतया सं-
भाव्यमानेन समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तन्नख-
कान्त्युत्कर्षः प्रतीयते । तद्वेधेतुनखकान्त्युत्कर्ष इत्यर्थः अत्रा-
प्रस्तुतप्रशंसा स्वरूपोत्प्रेक्षा च । 'समुद्रनवनीतं स्याश्च्चन्द्रः'
इति नानार्थरत्नमाला ॥ ५३ ॥
 
अथ क्रमेण ज ङ्घाद्यवयववर्णनानि ---
 
सव्यापसव्यशरमोक्षकृतीक्षुधन्वा
जो तबजङ्घे तव स्वशरधी इति संदिहान: ।
आलोकतेऽ ङ्घ्रिकटकोद्गतरुक्छलेन
न्यस्याभितो निजशराननुरूपभावम् ॥
 
सव्यापसव्यशरमोक्षकृती अर्जुन इव सव्यभागेन अपस-
व्यभागेन च शराणां मोक्षे कृती पदुःटुः अत एव इषुधिद्वय-