This page has not been fully proofread.

नखप्रक्षालनजले गङ्गारूपे लग्नाः तेषां नखानां कान्तिलेश-
कणिका: जलधिं प्रविष्टाः समुद्रं प्राप्ताः ता एव कणिका:
तस्य जलधेर्मथनेन घनीभवन्त्यः सान्द्रतां प्राप्ताः नूनं
समुद्रसंबन्धिनो नवनीतस्य चन्द्रस्य पदं प्राप्ताः चन्द्र-
रूपेण परिणता इत्यर्थः । अत्र भगवत्पादाम्बुजक्षालनतो-
वरूपायां दिव्यसरिति अलक्तकरसादिवल्लमानां तया सह्
समुद्रं प्रविष्टानां तन्नखकान्तिलेशकणिकानां परिणामतया सं-
भाव्यमानेन समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तन्नख-
कान्त्युत्कर्षः प्रतीयते । तद्वेतुनखकान्त्युत्कर्ष इत्यर्थः अत्रा-
प्रस्तुतप्रशंसा स्वरूपोत्प्रेक्षा च । 'समुद्रनवनीतं स्याञ्चन्द्रः
इति नानार्थरत्नमाला ॥ ५३ ॥
 

 
अथ क्रमेण जाद्यवयववर्णनानि -
सव्यापसव्यशरमोक्षकृतीक्षुधन्वा
जो तब स्वशरधी इति संदिहान: ।
आलोकतेऽकिटकोद्गत रुक्छ लेन
 
न्यस्याभितो निजशराननुरूपभावम् ॥
 
सव्यापसव्यशरमोक्षकृती अर्जुन इब सव्यभागेन अपस-
व्यभागेन च शराणां मोक्षे कृती पदुः अत एव इषुधिद्वय-