This page has been fully proofread once and needs a second look.

दाम्बुरुहं धन्याः कृतार्था:थाः सकृत् एकवारं प्रपद्य मुक्ता भव-
न्ति तदेव नित्यं भजतां प्रपद्यमानानां दिव्यमणिनूपुरमौक्ति-
कानाम् अतिमुक्तलक्ष्मीः ' अतिमुक्तः पुण्डूक:ड्रकः स्याद्वासन्ती
माधवी लता' इत्यमरः । तदीयमुकुलानां शोभैव मुक्ताति-
शायिनी संपत् सा युक्तैव । सकृत्प्रपन्नेभ्यः सदा प्रपद्यमाना-
नामतिशयितफलावाप्तिर्युक्तैवेत्यर्थः । अत्र युक्तत्वोपपादने पूर्व-
वाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं. काव्यलिङ्गम् । अतिमुक्त-
लक्ष्मीरित्यत्र अन्यदीया शोभा अभ्यत्रान्वयमलभमाना तत्स-
मानशोभां गमयतीत्यसंभवत्तद्वस्तुसंबन्धनिबन्धना निदर्शना
तत्रैव श्लेषमूलातिशयोक्तिश्चेति तयोरेकवाचकानुप्रवेशलक्षणः
संकरः । काव्यलिङ्गेनातिशयोक्तेरङ्गाङ्गिभावसंकरः । पदाम्बु-
रुहमित्यत्र पदमम्बुरुहमिवेति ' उपमितं व्याघ्रादिभिः--' इति
सूत्रेण पूर्वपदार्थप्रधान उपमितसमास इत्युपमालंकारस्य तैः
सह संसृष्टिः ॥ ५२ ॥
 
नाथ त्वदङ्घ्रिनखघाबधावनतोयलग्राना-
स्तस्त्कान्तिलेशकणिका जलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यो
नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३ ॥
 
हे नाथ विष्णो, त्वदङ्घ्रिनखधावनतोयलग्नाः त्वच्चरण-