This page has been fully proofread once and needs a second look.

गमक्षण एव मुक्तामयान्मुक्ताफलरूपान् । पक्षे मुक्तसकल-
रोगान् विदधतां ते नखानां जैवातृकत्वमुचितं ननु उचिवं
भवस्त्येव । जैवातृकत्वं प्रकृते चन्द्रत्वं पक्षे मिभिषक्त्वं दीर्घायुष्टुंट्वं
वा । ' अथ जैवातृकः पुमान् । चन्द्रे च परिखायां च परि-
घेऽथ द्वयोः शुके । धने तु डीक्लीबमायुष्मत्कृषीवलभिषक्षु
सः ॥' इति केशवः । यः स्वसमागममालेत्रेण दीर्घतीव्रामय-
निकरग्रस्तानप्युल्लाघयति तस्य वैद्यकेष्वतिनिपुणस्य भिषक्त्वं
संभावितं स्वकीयसकलव्याधिपरिहारेण दीर्घायुष्ठुंट्वं वा युक्तमे-
बेवेति भावः । अत्र नखानां जैवातृकत्वं रूपकलभ्यम्, तदेव
श्लेषमूलातिशयोक्त्या भिषक्त्वायुष्मत्त्वरूपमध्यवसितमिति रू-
पकातिशयोक्त्योरेकवाचकानुप्रवेशलक्षणः संकरः । तदुत्त्था-
पकस्य स्फुरत्सहजरुक्प्रकरानित्यत्र मुक्तामयानित्यत्र च श्लेष-
स्य तयातिशयोक्त्या अङ्गाङ्गिभावलक्षण:णः संकरः । मुक्ताफल-
त्यप्राप्त्युक्त्या तद्गुणालंकारश्च प्रतीयते ॥ ५१ ॥
 
यत्ते पदाम्बुरुहमम्बुरुहामनेव्ड्यं
धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मी-
युक्तैव दिव्यमणिनृपुरमौक्तिकानाम् ॥
 
हे ईश, अम्बुरुहासनेन ब्रह्मणा ईड्यं स्तुत्यं तव यत्प-