This page has not been fully proofread.

गमक्षण एव मुक्तामयान्मुक्ताफलरूपान् । पक्षे मुक्तसकल-
रोगान् विद्धतां ते नखानां जैवातृकत्वमुचितं ननु उचिवं
भवस्येव । जैवातृकत्वं प्रकृते चन्द्रत्वं पक्षे मिषक्त्वं दीर्घायुष्टुं
वा । ' अथ जैवातृकः पुमान् । चन्द्रे च परिखायां च परि-
घेऽथ द्वयोः शुके । धने तु डीबमायुष्मत्कृषीवलभिषक्षु
सः ॥ इति केशवः । यः स्वसमागममालेण दीर्घतीव्रामय-
निकरग्रस्तानप्युल्लाघयति तस्य वैद्यकेष्वतिनिपुणस्य भिषक्त्वं
संभावितं स्वकीयसकलव्याधिपरिहारेण दीर्घायु वा युक्तमे-
बेति भावः । अत्र नखानां जैवातृकत्वं रूपकलभ्यम्, तदेव
लेषमूलातिशयोक्त्या भिषक्त्वायुष्मत्त्वरूपमध्यवसितमिति रू-
पकातिशयोक्त्योरेकवाचकानुप्रवेशलक्षणः संकरः । तदुत्त्था-
षकस्य स्फुरत्सहजरुक्प्रकरानित्यत मुक्कामयानित्यत्र च श्लेष-
स्य तयातिशयोक्त्या अङ्गाङ्गिभावलक्षण: संकरः । मुक्ताफल-
त्यप्राप्त्युक्त्या तद्गुणालंकार प्रतीयते ॥ ५१ ॥
 
यसे पदाम्बुरुहमम्बुरुहामने व्यं
 
धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मी-
युक्तैव दिव्यमणिनुपुरमौक्तिकानाम् ॥
 
हे ईश, अम्बुरुहासनेन ब्रह्मणा ईड्यं स्तुत्यं तव यत्प-