This page has been fully proofread once and needs a second look.

इति हेत्वलंकारस्य लक्षणोदाहरणे । चन्द्रोदयस्य मानिनी-
मानविच्छेदाहेतुत्वेऽपि चतुर्ध्थ्या प्रतीतं तदुद्देश्यकत्वमस्तीति
तेन रूपेण कल्पितो हेतुः । एवमप्रस्तुतचन्द्रगतभगवच्चरणन-
खमयूखलेशपरिणतिविशेषत्वात्प्रेक्षणाद्वर्णनीयत्वेन प्रस्तुतो भग-
वच्चरणनखमयूखभूमा प्रतीयते इत्यप्रस्तुतप्रशंसालंकारः । 'प्र-
स्तुतस्यावगत्यर्थं यदप्रस्तुतवर्णनम् । अप्रस्तुतप्रशंसा सा किंचि-
त्संबन्धसंश्रया ॥' नैषधचरिते-- 'हृतसारमिवेन्दुमण्डलं दमय-
न्तीवदनाय वेधसा । कृतमध्याबिलं विलोक्यते धृतगम्भीर-
ख़नीखनीलिम ॥' इति तल्लक्षणोदाहरणे ॥ ५० ॥
 
पादानमत्सुरशिरोमणिपद्मरागा-
न्मथःसद्यः स्फुरत्सहजरुक्प्रकरान्कराग्रैः ।
मुक्तामयान्विदतां प्रकटं मुरारे
जैवातृकत्वमुचितं ननु ते नखानम् ॥५१॥
 
हे मुरारे, पादयोरानमतां सुराणां शिरोमणिपद्मरागान्
चूडामणिरूपानरुणमणीन् स्फुरत्सहजरुक्प्रकरान् स्फुरन्त:तः प्र-
काशमानाः सहजा:जाः स्वाभाविकाः अरुणवर्णाः रुक्प्रकराः
दीप्तिनिकराः येषां ते | पक्षे स्फुरन्तः अभिव्यक्ताः सहजाः
जन्मप्रभृत्यनुवृत्ताः अत एव दुःसाधाः रुक्प्रकरा:राः नाना-
बिविधव्याधिसमूहा येषां ते । तथाभूतानपि सद्यः स्वसमा-