2023-04-01 06:56:22 by Vidyadhar Bhat
This page has not been fully proofread.
गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड-
संघट्टनात्पदनखाग्र मयूखलेशम् ।
आलोक्य नूनममरा: पतितं पयोधा-
वामध्य तं जगृहुरीश तदिन्दुरूपम ॥
हे ईश, ऊर्ध्वगाण्डसंघट्टनात् ऊर्ध्वदेशगतं यदण्डं ब्रह्माण्डं
तत्संघट्टनात् तव पदनखाप्रमयूखलेशं गङ्गाच्छलेन निःसृतं
पयोधौ पतितम अमरा: आलोक्य तद्ब्रहणार्थं तं पयोधिमा-
मध्य इन्दुरूपं नवनीतवन्मथनेन घनीभूय चन्द्ररूपतां प्राप्तं
जगृहुः । नूनमित्युत्प्रेक्षा । त्रिविक्रमावतारे ऊर्ध्वप्रसारितभ-
गवञ्चरणनखाप्रनिर्भिण्णोर्ध्वाण्डच्छिद्रनिःसृतबहिर्जलधारारूपा
गङ्गा मेरोरुपरि ब्रह्मपुर्याश्चतसृषु दिक्षु प्रवहानिलेन चतुर्धा
विभक्ता पतिता सती सीतालकनन्दा चक्षुर्भद्रेति क्रमेण सं-
ज्ञाचतुष्टययुक्ता प्राच्यादिसमुद्रेषु पतितेति विष्णुपुराणादिषु
वर्णितम । अब चन्द्रस्य मथनगृहीतभगवच्चरणनखमयूखलेश-
'परिणतिविशेषतादात्म्यसंभावनारूपा स्वरूपोत्प्रेक्षा संघट्टनस्थ
नखमयूखानां नखं विहायान्यत्र गमने हेतुत्वाभावेऽपि हेतु-
त्वकल्पनाच्च हेत्वलंकारः । गङ्गाच्छलेनेत्यत्वापहुतिरिति एतै-
रलंकारैरुत्प्रेक्षायाः संकरः । ' कयापि विधया हेतुः कल्पितो
हेत्वलंकृतिः । असावुदेति शीतांशुर्मानच्छेदाय सुध्रुवाम् ॥'