This page has not been fully proofread.

७३
 
गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड-

संघट्टनात्पदनखाग्र मयूखलेशम् ।

आलोक्य नूनममरा: पतितं पयोधा.
-
वामध्य तं जगृहुरीश तदिन्दुरूपम ॥
 

 
हे ईश, ऊर्ध्वगाण्डसंघट्टनात् ऊर्ध्वदेशगतं यदण्डं ब्रह्माण्डं

तत्संघट्टनात् तव पदनखाप्रमयूखलेशं गङ्गाच्छलेन निःसृतं

योधौ पतितम अमरा: आलोक्य तद्ब्रहणार्थं तं पयोधिमा-

मध्य इन्दुरूपं नवनीतव न्मथनेन घनीभूय चन्द्ररूपतां प्राप्तं

जगृहुः । नूनमित्युत्प्रेक्षा । त्रिविक्रमावतारे ऊर्ध्वप्रसारितभ-

गवञ्चरणनखा प्रनिर्भिण्णोर्ध्वाण्डच्छिद्रनिःसृतबहिर्जलधारारूपा

गङ्गा मेरोरुपरि ब्रह्मपुर्याश्चतसृषु दिक्षु प्रवहानिलेन चतुर्धा

विभक्ता पतिता सती सीतालकनन्दा चक्षुर्भद्रेति क्रमेण सं-

ज्ञाचतुष्टययुक्ता प्राच्यादिसमुद्रेषु पतितेति विष्णुपुराणादिषु

वर्णितम । अब चन्द्रस्य मथनगृहीतभगवञ्च्चरणनखमयूखलेश-

'परिणतिविशेषतादात्म्यसंभावनारूपा स्वरूपोत्प्रेक्षा संघट्टनस्थ

नखमयूखानां नखं विहायान्यत्र गमने हेतुत्वाभावेऽपि हेतु-

त्वकल्पनाच्च हेत्वलंकारः । गङ्गाच्छलेनेत्यत्वापदु हुतिरिति एतै-

रलंकारैरुत्प्रेक्षायाः संकरः । ' कयापि विधया हेतुः कल्पितो

हेत्वलंकृतिः । असावुदेति शीतांशुर्मानच्छेदाय सुध्रुवाम् ॥ '