This page has been fully proofread once and needs a second look.

मत्वा चित्तदृगर्णवेभ्यः ' चन्द्रमा मनसो जातः' इति श्रुतेः
भगवश्च्चित्तादत्रिनयनात्कलशाम्बुधेश्च अजनि जातः किम् ?
दीपजनबुध--' इत्यादिना कर्तरि चिण् । 'आत्मा जीवे
धृतौ देहे स्वभावे परमात्मनि' इत्यमरः । अत्राधिगन्तुमिति
फलोत्प्रेक्षा धृतेर्ष्य इति कविप्रौढोक्तिकल्पितेर्ष्यासंबन्धातिश-
योक्त्या स्वात्मान इति नखेषु चन्द्रताद्रूप्यातिशयोक्त्या चो-
त्यापितेति संकरः ॥ ४८ ॥
 
भासा पदं तब रमाधिप भूषयन्ति
संसेवकांश्च विबुधान्परितोषयन्ति |
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते
संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥
 
हे नाथ रमाधिप, ते तव नखेन्दवः नखा एवेन्दवः तव
पदं चरणं पक्षे विष्णुपदमाकाशं भासा भूषयन्ति, संसेवका-
न्सम्यक्सेवां कुर्वतः विबुधान् विवेकिन:नः परितोषयन्ति च,
पक्षे चन्द्रकलामृतनिषेवणं कुर्वतो विबुधान्वह्न्यादीन् तर्प -
यन्ति, तमांसि क्षिपन्ति च । अपि तु एवं प्रसिद्धचन्द्रसाम्ये
सत्यपि भक्तानां भवाम्बुराशिं संशोषयन्ति । अत्र आपाततो
न्यूनव्यतिरेकः, विवेचने त्वधिकव्यतिरेकः । तस्य श्लेषैः
संकरः ॥ ४९ ॥