This page has not been fully proofread.

ब्रह्मशानादयो देवाः सर्वशक्तिरियं मम ॥ तस्य मे परमा
शक्तिर्ज्योत्स्नेव हिमदीधितेः । सर्वावस्थागता देवी स्वात्मभूता-
नपायिनी । अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी । इत्या-
दिषु कूर्मपुराणलक्ष्मीतन्त्रादिवचनेषु श्रीमहालक्ष्म्या भगव-
च्छक्तित्वमुकम । ' लक्ष्मी: पद्मालया शक्तिः क्षीरोदधिसुते-
न्दिरा' इति वैजयन्त्याम् । 'शक्तिभूः शूर्पकारातिरिक्षुधन्वा
च हृच्छयः' इति शब्दरत्नाकरे । 'शक्ति: साक्ष्यन्तरे पुमान् ।
बी सांख्यप्रकृतौ लक्ष्म्यां सामर्थ्य नीतिवेदिनाम् । प्रसिद्धानु
प्रभावादिजातासु स्यात्तिसृष्वपि ॥ इति केशवनिघण्टौ च
विशिष्यापि तस्यां शक्तिशब्दोऽनुशिष्टः । असाप हुत्यनुगृहीतं
काव्यलिङ्गमलंकारः ॥ ४७ ॥
 
6
 
किं वादशात्मनि रवी भगवन्तेर्य
चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव
एते तवेह दश भान्ति पदाङ्गुलीषु
स्वात्मान इत्यजाने चित्तहगर्णवेभ्यः ॥
 
1
 
हे भगवन्, चन्द्रः सूर्यप्रतिद्वन्द्वितया द्वादशात्मनि द्वाद-
सदेहशालिनि रवौ सूर्ये धृतेर्ष्यः अक्षमायुक्तः सन् ततोऽप्य
धिकतां त्रयोदशदेहवत्तारूपामधिगन्तुं प्राप्तुमेव तव इह एतासु
पदाङ्गुलीषु एते दश स्वात्मानः स्वदेहा नखरूपा भान्तीति