This page has not been fully proofread.

यस्याः स्खमूर्त्यनुगुणाकृतिशक्तियुक्तः

पादाम्बुजद्वयमिषात्कमठाधिराजः ।

मुले वसत्युचितमेव निगद्यते सा

मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७ ॥
 

 
हे महापुरुष, ते तव मूर्ति: अखिललोकरूपा चतुर्दशभु-

नात्मिकेत्युचितमेव निगद्यते पौराणिकै: 'पातालमेवास्य हि

पादमूलम' इत्याद्यं महापुरुषसंस्थानं वर्णयद्भिः । तदुपपाद्यते

पूर्ववाक्येन – यस्याः स्वमूर्तेर्मूले पादाम्बुजद्वयमिषात् पादा-

म्बुजद्वयमिति व्याजात् स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः कमठा-

घिराजः श्रीकूर्मो वसति । पागलमूले हि श्रीकूर्मस्य वासो

युक्तः । तस्य च 'देवत्वे देवदेहेयं मानुषत्वे चं मानुषी ।

विष्णोर्देशाहानुसारेण करोत्येषात्मनस्तनुम् ॥' इति विष्णुपुराण-

वचनानुसारेण स्वमूर्तितुल्यमूर्तिधारिण्या शक्त्या श्रीमहालक्ष्मी-

रूपया नित्यं योगोऽप्युचितः । त्योर्नित्ययोगसाक्षित्वेिन ' इयं

सा परमा शक्तिर्मम या ब्रह्मरूपिणी । माया मम प्रियानन्ता

ययेदं मोहितं जगत् ॥ अनयैतजगत्सर्व सदेवासुरमानुषम् ।

मोहयामि द्विजश्रेष्ठ प्रसानि विसृजानि च ॥ उत्पत्तितिं प्रलयं

चैव भूतानामागतिं गतिम । विज्ञाय वीक्ष्य चात्मानं तरन्ति

बिपुलामिमाम् ॥ अस्यास्त्वंशानविधिष्ठाय शक्तिमन्तोऽभवन्द्विज ।