This page has not been fully proofread.

यस्याः स्खमूर्त्यनुगुणाकृतिशक्तियुक्तः
पादाम्बुजद्वयमिषात्कमठाधिराजः ।
मुले वसत्युचितमेव निगद्यते सा
मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७ ॥
 
हे महापुरुष, ते तव मूर्ति: अखिललोकरूपा चतुर्दशभु-
बनात्मिकेत्युचितमेव निगद्यते पौराणिकै: 'पातालमेवास्य हि
पादमूलम' इत्याद्यं महापुरुषसंस्थानं वर्णयद्भिः । तदुपपाद्यते
पूर्ववाक्येन – यस्याः स्वमूर्तेर्मूले पादाम्बुजद्वयमिषात् पादा-
म्बुजद्वयमिति व्याजात् स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः कमठा-
घिराजः श्रीकूर्मो वसति । पागलमूले हि श्रीकूर्मस्य वासो
युक्तः । तस्य च 'देवत्वे देवदेहेयं मानुषत्वे चं मानुषी ।
विष्णोर्देशानुसारेण करोत्येषात्मनस्तनुम् ॥' इति विष्णुपुराण-
वचनानुसारेण स्वमूर्तितुल्यमूर्तिधारिण्या शक्त्या श्रीमहालक्ष्मी-
रूपया नित्यं योगोऽप्युचितः । त्योर्नित्ययोगसात्वेिन ' इयं
सा परमा शक्तिर्मम या ब्रह्मरूपिणी । माया मम प्रियानन्ता
ययेदं मोहितं जगत् ॥ अनयैतजगत्सर्व सदेवासुरमानुषम् ।
मोहयामि द्विजश्रेष्ठ प्रसानि विसृजानि च ॥ उत्पत्ति प्रलयं
चैव भूतानामागतिं गतिम । विज्ञाय वीक्ष्य चात्मानं तरन्ति
बिपुलामिमाम् ॥ अस्यास्त्वंशानविष्ठाय शक्तिमन्तोऽभवन्द्विज ।