This page has not been fully proofread.

सादृश्यं विचार्य ततः कृतापराधम् अत एव हि तत्सरोजमु-
पेत्य रेखाच्छलेन पद्मरेखाव्याजेन अनयोरुभयो: सेवामपरा-
धक्षालणार्थं विदधाति इति शङ्के । अत्र नेयं कमलरेखा, किं
त्वपराधपरिहारार्थ सदा सेवां कुर्व प्रसिद्धं कमलमेवेति च्छ-
लशब्देन प्रतीतेः कैतवापह्नुतिरलंकारः । तस्याः साम्यानुचि-
न्तनाद्यतिशयोक्त्या संकरः । मणिशेखरेत्यतिशयोक्त्या संसृष्टिः ॥
लेखाधिनाथ वनपल्लव धैर्ग चोरे
रेखामयं पदतले कमलं यदेतत् ।
तत्रैव विश्रमजुषोऽच्युन रागलक्ष्म्या
क्रीडानिशान्तकमलं तदिति प्रतीमः ॥
 
हे अच्युत, लेखाधिनाथो देवेन्द्रः तस्य वनं नन्दनं
तत्संबन्धिनां पल्लवानां कल्पवृक्षप्रवालानां यद्धैर्यमरुणिमोत्क-
षभिमानकृतं तस्य चोरे मोषकं तव पदतले रेखामयं रेखा-
रूपं यत्कमलं तदेतत् तत्रैव त्वत्पदतल एव विश्रमजुषः वि.
श्रान्ते: परां काष्ठां प्राप्तवत्याः रागलक्ष्म्याः रागसंपद: क्रीडा-
निशान्तकमलं लक्ष्मीः कमलवासिनीति तस्याः क्रीडागृहरूपं
कमलं प्रतीमः जानीमः । तत्रैव विश्रमजुष इत्यतिशयोक्ति-
गर्यो लक्ष्मीशब्दश्लेषगर्भत्र स्वरूपोत्प्रेक्षालंकारः । तस्य धैर्य-
चोरे इत्यतिशयोक्त्या संसृष्टिः ॥ ४६ ॥