This page has been fully proofread once and needs a second look.

विसृष्टुब्रह्महत्यारूपमहापातकविमोक्षः स्कान्दे नागरखण्डे प्र-
तिपादितः । तत्रैतानि वचनानि –- 'आदौ क्षमामेत्य तदा
द्यूचुः सर्वे दिवौकसः । एकस्त्वंशस्त्वया ग्राह्यो हत्यायाः का-
र्यसिद्धये ॥ सुराणां तद्वचः श्रुत्वा पृथिवी कम्पितावदत् ।
कथं ग्राह्यो मया ह्यंशो हत्यायास्तद्विमृश्यताम् ॥ अहं हि सर्व-
भूतानां धात्री विश्वंभरास्म्यहम् । अपवित्रा भविष्यामि ह्येन-
सा संप्लुता भृशम् ॥ पृथिव्यास्तद्वचः श्रुत्वा बृहस्पतिरुवाच
ताम् । मा भैषीश्चारुसर्वाङ्गि निष्पापासि न चान्यथा ॥ यदा
यदुकुले श्रीमान् वासुदेवो भविष्यति । तदा तत्पदविन्यासैर्नि-
ष्पापा त्वं भविष्यसि । कुरु वाक्यं तदस्माकं नात्र कार्या
विचारणा । इत्युक्ता पृथिवी चैषा देवानां साकरोद्वचः ॥'
इति ॥ ४४ ॥
 
मातङ्ग शैलमाणशेखर ते पदाभ्यां
मोहेन साम्यमनुचिन्त्य कृतापराधम् ।
शङ्के सरोजमनयोरुभयोरुपेत्य
रेखाच्छलेन सततं विदधाति सेवाम् ||
 
हे मातङ्गशैलमणिशेखर हस्तिशैलस्य रत्नशेखरच्छोभा-
वह, ते तव पदाभ्यां मोहेन अज्ञानेन मौढ्येन वा । 'मोहो
वैचित्त्यमौग्ध्ययोः' इति शब्दरत्नाकरः । साम्यमनुचिन्त्या