This page has not been fully proofread.

ww/doc.pmm
 
विसृष्टुब्रह्महत्यारूपमहापातकविमोक्षः स्कान्दे नागरखण्डे प्र-

तिपादितः । तत्रैतानि वचनानि – 'आदौ क्षमामेत्य तदा
[:

सर्वे दिवौकसः । एकस्त्वंशस्त्वया प्ग्राह्यो हत्यायाः का-

र्यसिद्धये ॥ सुराणां तद्वचः श्रुत्वा पृथिवी कम्पितावदत् ।

• कथं ग्राह्यो मया ह्यंशो हत्यायास्तद्विमृश्यताम् ॥ अहं हि सर्व-

भूतानां धात्री विश्वंभरास्म्यहम् । अपवित्रा भविष्यामि ह्येन-

सा संप्लुता भृशम् ॥ पृथिव्यास्तद्वचः श्रुत्वा बृहस्पतिरुवाच

ताम् । मा भैषीश्चारुसर्वाङ्गि निष्पापासि न चान्यथा ॥ यदा

यदुकुले श्रीमान् वासुदेवो भविष्यति । तदा तत्पदविन्यासैर्नि-

ष्पापा त्वं भविष्यसि । कुरु वाक्यं तदस्माकं नात्र कार्या

विचारणा । इत्युक्ता पृथिवी चैषा देवानां साकरोद्वचः ॥'

इति ॥ ४४ ॥
 

 
मातङ्ग शैलमाणशेखर ते पदाभ्यां

मोहेन साम्यमनुचिन्त्य कृतापराधम् ।

शङ्के सरोजमनयोरुभयोरुपेत्य
 

रेखाच्छलेन सततं विद्धाति सेवाम्
 
||
 
हे मातङ्गशैलमणिशेखर हस्तिशैलस्य रत्नशेखरखच्छोभा-

वह, ते तव पदाभ्यां मोहेन अज्ञानेन मौढ्येन वा । 'मोहो

वैचित्त्यमौग्ध्ययोः' इति शब्दरत्नाकरः । साम्यमनुचिन्त्या