This page has been fully proofread once and needs a second look.

इति 'आमोदो मुत्सुगन्धयोः' इति 'मरुद्देवसमीरयोः' इति
च शब्दरत्नाकरः । एवंभूतं तव पदं शतपत्रं पद्ममेव शङ्के ।
अत्र कल्याणशाली त्याद्यर्थश्लेषेण आसेवकेत्याद्यभङ्गशब्दश्लेषेण
चोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ४३ ॥
 
स्पर्शं गयोः समधिगम्य झटित्यहल्या
देवी च भूरभवदुज्झि सर्वपङ्का |
ताभ्यां घंटेन मस्त।समता भवतः पदाभ्या-
माजन्नपङ्कःमपङ्कवमनेः कथमम्बुजस्य ॥ ४४ ॥
 
अहल्या देवी भूर्वसुंधरा च ययोः स्पर्शं समधिगम्य सं-
प्राप्य झटिति तदैव उज्झितसर्वपङ्का त्यक्तसमस्तपापा अभ-
वत्, ताभ्यां भवतः पदाभ्याम् आजन्म जन्मप्रभृति पङ्क एव
वसतिर्यस्य । पङ्कस्य पापस्य वसतेरित्यपि विवक्षितम् ।
तस्याम्बुजस्य समता कथं घटेत ? स्वपापमपि क्षालयितुमक्ष-
मस्य तथाभूताभ्यां भवतः पदाभ्यां समता घटत इति संभा-
नापि नास्तीत्यर्थः । अत्र वाक्यार्थहेतुकं पदार्थहेतुकं च का-
त्र्व्यलिङ्गमलंकारः । द्वयोरपि पङ्कशब्दश्लेषेण संकरः । 'पङ्को-
ऽस्त्री कर्दमैनसोः' इति यादवः । धरण्यहल्ययोरेकक्रियान्वय-
रूपेण तुल्ययोगितालंकारेण वाक्यार्थहेतुकस्य काव्यलिङ्गस्य
संकरः । कृष्णावतारं कृततो भगवतः पादस्पर्शा- ब्रूद्भूमेरिन्द्र-