This page has not been fully proofread.

६७
 
इति 'आमोदो मुत्सुगन्धयोः' इति 'मरुद्देवसमीरयोः' इति
च शब्दरत्नाकरः । एवंभूतं तव पदं शतपत्रं पद्ममेव शङ्के ।
अब कल्याणशाली त्याद्यर्थश्लेषेण आसेवकेत्याद्यभङ्गशब्दश्लेषेण
चोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ४३ ॥
 
स्पर्श गयोः समधिगम्य झटित्यहल्या
देवी च भूरभवदुज्झिन सर्वपा
ताभ्यां घंटेन मस्त। भवतः पदाभ्या.
माजन्नपङ्कः कथमम्बुजस्य ॥ ४४ ॥
 
1
 
अहल्या देवी भूर्वसुंधरा च ययोः स्पर्श समधिगम्य सं-
प्राप्य झटिति तदैव उज्झितसर्वपका व्यक्तसमस्तपापा अभ-
वत्, ताभ्यां भवतः पदाभ्याम् आजन्म जन्मप्रभृति पक एव
वसतिर्यस्य । पङ्कस्य पापस्य वसतेरित्यपि विवक्षितम् ।
तस्याम्बुजस्य समता कथं घटेत ? स्वपापमपि क्षालयितुमक्ष-
मस्य तथाभूताभ्यां भवतः पदाभ्यां समता घटत इति संभा-
बनापि नास्तीत्यर्थः । अत्र वाक्यार्थहेतुकं पदार्थहेतुकं च का-
त्र्यलिङ्गमलंकारः । द्वयोरपि पशब्दश्लेषेण संकरः । 'पङ्को-
ऽस्त्री कर्दमैनसोः' इति यादवः । धरण्यहल्ययोरेकक्रियान्वय-
रूपेण तुल्ययोगितालंकारेण वाक्यार्थहेतुकस्य काव्यलिङ्गस्य
संकरः । कृष्णावतारं कृतबतो भगवतः पादस्पर्शा- ब्रूमेरिन्द्र-