This page has been fully proofread once and needs a second look.

हनुमानब्धिमतरहुष्करं किं महात्मनाम् ॥ इत्यर्थान्तरन्यास-
लक्षणोदाहरणे ॥ ४२ ॥
 
कल्याणशालिकमलाकरलालनीय-
मामेवक श्रुतिमनोहरनादिहंसम् ।
आमोदमेदुर मेरुन्नमितालिकान्तं
शङ्के तवेश्वर पदं शतपत्रमेव ॥ ४३ ॥
 
हे ईश्वर स्वामिन्, कल्याणैर्मङ्गलै: शाली श्लाघ्यः । 'शा-
लृ श्लाघायाम्' इति धातोः कर्मण्यौणादिकः । 'शालि स्या-
च्श्लाध्यं शालि मनोरमम्' इति केशवः । कल्याण श्रेष्ठ इति
बावा। 'शालिश्रेष्ठौ समावुभौ' इत्युक्तशेषाध्याये शब्दरत्नाकरः ।
तेन कमलायाः करेण संवाहनक्रियया कमलपक्षे धारणेन च
लालनीयम् आ समन्तात् सेवकाः श्रुतिमनोहरनादिनः वे-
दानां यो मनोहरो नादः, पक्षे श्रोत्रसुखो नादः, द्वन्तो
हंसा यतयः पक्षिणश्च यस्य तत्तथोक्तम्, आमोदेन हर्षेण
मेदुरैः सान्द्रैर्मरुद्भिर्देवैः नमिता नतिं प्रापिता अलिकानां
ललाटानामन्ता यस्मिंस्तत्तथोक्तम्, पक्षे आमोदेन पद्मसौर-
भेण मेदुरैः सान्द्रैः मरुद्भिर्मारुतैः नमिता आनीताः ये अल-
यो भृङ्गाः तैः कान्तम् । 'हंसोऽर्के विहगे विष्णौ जीवे वेव-
वृषे स्मरे । निःसपत्ननृपे भिक्षौ' इति 'ललाटमलिकं फालन