This page has not been fully proofread.

UKY
 
न्तादृक्पातकैतवात् ॥' इति तल्लक्षणोदाहरणे । कथयन्तीत्य-
भिव्यञ्जनमेव स्पष्टतया कथनत्वेनाध्यवसितम् ॥ ४१ ॥
 
पद्मोपमात्पदयुगासव रत्नगर्भा
जातेति पद्मसदृशाकृतिमाहुरेनाम् ।
कार्य हि कारणगुणानतिवर्ति लोके
 
BI
 
प्राय: पतङ्गपतिवाह बिलोकयामः ॥
रत्नगर्भा वसुंधरा पद्मोपमात्पद्मसदृशात् तव पदयुगाज्जा-
ता। 'पद्भ्यां भूमि:-' इति मन्त्रवर्णात् । इति हेतोः एनां
वसुंधरां पद्मसदृशाकृतिमाहुः पौराणिकाः । भूवलयपद्मस्य
मध्यगतः काञ्चनगिरिः कर्णिका । तां परितः केसराचलाः ।
मतो बहि: पत्राचला इति हि विष्णुपुराणादिषु प्रतिपादितम् ।
रामनपुराणेऽप्युक्तं प्रह्लादकृतभगबदन्वेषणप्रस्तावे– 'भूमिं तु
फारां तन्मध्ये कर्णिकाकृतिम् । मेरुं ददर्श शैलेन्द्रं शा-
म्भं महर्द्धिमत् ॥' इति । उत्प्रेक्षितो हेतुः सामान्योक्त्या
समर्थ्य - कार्य कारणगुणानातवर्ति कारणगुणानुसारिगुण-
बत लोके प्राय: बाहुल्येन बिलोकयामः पश्यामः । हिः प्र-
-
 
। पतनपतिवाह गरुडवाहनेति संबुद्धिः । उपमोत्था-
चिमणम्य हेतूत्प्रेक्षामूल: सामान्येन विशेषसमर्थनारूपोऽर्या-
बाम: । 'उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः ।
 
V. 6