This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
तिरोभूते स्वात्मन्यमल-तरतेजोवति पुमान्
अनात्मानं मोहादहमिति शरीरं कलयति ।
ततः कामक्रोध-प्रभृतिभि-रमुं बन्धकगुणैः
 
परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥ १४२ ॥
 
९५
 
अमलतरतेजोवति अतिस्वच्छप्रकाशवति स्वात्मनि स्वस्वरूपे
परमात्मनि अज्ञानगतावरणशक्त्या तिरोभूते न्यग्भूते स्पष्टमभासमाने
सति, पुमान् जीवः मोहात् अविवेकात्, अनात्मानं आत्मभिन्नं शरीरं देहं
अहमिति तादात्म्येन कलयति जानाति अभिमन्यते ।
 
ततः शरीरे
तादात्म्याभिमानानन्तरं अमुं पुरुषं विक्षेपाख्या विक्षेपनाम्नी रजसः रजो-
गुणस्य उरुशक्तिः प्रवला शक्तिः कामक्रोधप्रभृतिभिः कामश्च क्रोधश्च
कामक्रोधौ तौ प्रभृती, आदी येषां लोभदंभाभ्यसूयाहंकारेर्ष्या-मत्सराद्यानां
ते कामक्रोधप्रभृतयः तैः बन्धकगुणैः अध्यासवृद्धिहेतुभूतैः धर्मैः परमत्यन्तां
व्यथयति शोचयति । दुःखजटिलं करीतीत्यर्थः । प्रसिद्धं हि शरीरा-
भिमानवतः तदनुकूले वस्तुनि कामः तदलाभे क्रोधः तल्लाभे लोभः इत्यादि ।
उक्तं हि गीतायां " त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामःक्रोधस्तथा
लोभस्तस्मादेतत्रयं त्यजेत् " इति ॥ १४२॥
 
"
 
एवमज्ञानं आवरणविक्षेपशक्तिभ्यां सर्वानर्थमूलमित्युक्तं पुनर्विशद -
यति महामोहेत्यादिना ।
 
महामोह - ग्राहग्रसन-गलितात्मावगमनो
 
धियो नानावस्थास्स्वयमभिनयंस्तद्गुणतया ।
अपारे संसारे विषयविषपूरे जलनिधौ
 
निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥ १४३॥
 
महामोह-ग्राहग्रसन-गलितात्मावगमनः महांश्चासौ मोहश्च महा-
मोह: दृढतराविवेकः स एव ग्राह: मकरः तस्य ग्रसनं तत्कर्तृक- निगरणं
तेन गलितं नष्टं आत्मावगमनं आत्मनः अवगमनं सम्यज्ज्ञानं यस्य सः
 
अनवबुध्यमानयाथात्म्य इत्यर्थः । धियः बुद्धेः नानावस्था: बहुविधान्
परिणामान्, तद्गुणतया तस्याः गुणाः यस्य सः तद्गुणः तदुपहिततया