This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
बहुविधदुःख-समुदाय: निपतति प्राप्तो भवति । ततः तस्मात्कारणात्

योसद्ग्राहः अन्यथावर्तमानस्य अन्यथाग्रहणं सः बंध: भवति हि

निश्चयः । सखे शृणु स्पष्टम् ॥ तत्र रज्वां भुजगधिषणामदृष्टान्तयित्वा

भुजगे रज्जुधिषणा अनात्मन्यध्यासे दृष्टान्तीकृता अत्यन्तानर्थकरत्व-

द्योतनाय ॥ १४०॥
 
९४
 

 
इदानीं कथमेष आगत इत्यस्य प्रश्नस्य उत्तरं वक्तुमारभते ।

अखण्डेति ।
 

 
अखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम् ।

समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कबिबिंबम् ॥१४१॥
 
" ((
 
"" 66
 

 
अज्ञानस्य द्वे शक्ती बन्धहेतुभूते आवरणशक्तिः विक्षेपशक्तिश्चेति ।

क्रमेण तयोः बन्धहेतुत्वमुपपादयति । अखण्डा अपरिच्छिन्ना अत एव नित्या

उत्पत्तिनाशशून्या । अद्वया द्वितीयशून्या या बोधरूपा शक्तिः

"
स्वाभाविकी ज्ञानबलक्रिया च " इति श्रुतेः "अयमात्मा ब्रह्म सर्वानुभूः

"सत्यं ज्ञानमनन्तं'" विज्ञानमानन्दं ब्रह्म " "कृत्स्न: प्रज्ञानघन एव"

इतिश्रुतिभ्यश्च । तया शक्त्या स्फुरन्तं प्रकाशमानं । अनन्तवैभवं

विभोर्भावः वैभवं, तस्य गगनादिवदापेक्षिकत्वं वारयति अनन्तेति ।

अनन्तं निरपेक्षं वैभवं यस्य इति निरतिशय महत्वमुक्तम् अतिपरिच्छिन्ने

देहादौ अहंमतिः अत्यन्तमयुक्तेति बोधयितुं । एतादृशे परिच्छिन्नत्वा-

नित्यत्व - सद्वयत्व-जडत्वादिक-मारोप्यते अज्ञानात् । तत्र हेतुं स्फुटयति,
 

तमनन्तवैभवं अखण्डनित्याद्वयबोध-शक्त्या प्रकाशमानमात्मानं तमोमयी

तमः प्रचुरा एषा विवेकिजनप्रत्यक्षा आवृतिशक्तिः ।
अर्कबिंब महता

प्रकाशेन भासमानं सूर्यमण्डलं तमोमयो राहुरिव समावृणोति अभासमान-

स्वासाधारण-धर्माणं करोति । यथा महाप्रकाशवानप्यर्कः राहुणावृतः

न भासत इत्युच्यते तथा तत्तादृशोप्यात्मा आवृतिशक्त्या समावृतः

अज्ञातवास्तवरूपो भवतीति भावः ॥ १४१॥
 
(6
 
66
 

 
पूर्वार्धेन आवरणकार्यं उत्तरार्धेन विक्षेपशक्तिकार्यं च क्रमेणाह ।

तिरोभूत इत्यादिना ।
 
"