This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
परिग्रहः । पंचक्लेशमध्ये आदिमक्लेशस्येव
"अनित्याशुचिदुःखा-
इत्युक्तत्वात् ।
 
"
 
नात्मसु नित्यशुचिसुखात्मत्वख्यातिरविद्या " इति योगसूत्रात् । तत्र देहे
स्थूलेभिमानात् जननमरणसंपात: आनन्दमयादावभिमानात् रागद्वेषाभि-
निवेशानां संपातः इति सकलविधदुःखहेतुत्वं आदिमक्लेशस्य कार्या-
विद्याया बंधशब्दिताया इति बोध्यं । येनैव अनात्मन्यात्ममतिरूप-बन्धेनैव
अयं पुरुषः इदमसद्वपुः आत्मबुध्या सत्यमिति अहमित्यभिमानेन। विषयैः
बंधकैरप्यनुकूलैरिव प्रतीयमानैः रसादिभिः पुष्यति वर्धयति उक्षति सिंचति
अवति रक्षति । तत्रानुरूप: दृष्टांतः तंतुभिः कोशकृद्वदिति । यथा
कोशकारः क्रिमिः स्वदेहगत-लालाव्ययेन तंतून् कृत्वा तैः रक्षितो भवामीति
भ्रान्त्या तन्मध्यलग्नः अन्यत्र गंतुमशक्तः वृथा म्रियते एवं जीवोपि
शरीरमात्मत्वेन मत्वा विषयैः पोषयन् तद्वशः जन्ममरणादिसकलविध-
दुःखमनुभवतीति भावः । उक्तं हि "कोशक्रिमिस्तंतुभिरात्मदेहं आवेष्ट्य
चावेष्ट्य च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एव सन् ततस्तदंत-
म्रियते च लग्नः" इति ॥ तत्र अवनं रक्षणं स्थितस्य परिपालनं पोषणं
तु तदुपचायकत्वं इति भेदः ॥ १३९ ॥
 
अस्मितारागद्वेषाभिनिवेशानां
 
परिग्रहः । पंचक्लेशमध्ये आदिमक्लेशस्यैव
"
अनात्मन्यहमितिमतिर्बन्ध
 
(6
 
"
 
1
 
इत्युक्तत्वात् । "अनित्याशुचिदुःखा-
नात्मसु नित्यशुचिसुखात्मत्वख्यातिरविद्या " इति योगसूत्रात् । तत्र देहे
स्थूलेभिमानात् जननमरणसंपात: आनन्दमयादावभिमानात् रागद्वेषाभि-
निवेशानां संपातः इति सकलविधदुःखहेतुत्वं आदिमक्लेशस्य कार्या-
विद्याया बंधशब्दिताया इति बोध्यं । येनैव अनात्मन्यात्ममतिरूप-बन्धेनैव
अयं पुरुषः इदमसद्वपुः आत्मबुध्या सत्यमिति अहमित्यभिमानेन। विषयैः
बंधकैरप्यनुकूलैरिव प्रतीयमानैः रसादिभिः पुष्यति वर्धयति उक्षति सिंचति
अवति रक्षति । तत्रानुरूप: दृष्टांतः तंतुभिः कोशकृद्वदिति । यथा
कोशकारः क्रिमिः स्वदेहगत-लालाव्ययेन तंतून् कृत्वा तैः रक्षितो भवामीति
भ्रान्त्या तन्मध्यलग्नः अन्यत्र गंतुमशक्तः वृथा म्रियते एवं जीवोपि
शरीरमात्मत्वेन मत्वा विषयैः पोषयन् तद्वशः जन्ममरणादिसकलविध-
दुःखमनुभवतीति भावः । उक्तं हि "कोशक्रिमिस्तंतुभिरात्मदेहं आवेष्ट्य
चावेष्ट्य च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एव सन् ततस्तदंत-
म्रियते च लग्नः" इति ॥ तत्र अवनं रक्षणं स्थितस्य परिपालनं पोषणं
तु तदुपचायकत्वं इति भेदः ॥ १३९ ॥
 
अधिष्ठानारोप्ययोः भेदग्रहे अभ्ध्यासासंभवात् अज्ञानस्य मूल-

कारणस्य अविवेकद्वारा बन्धहेतुत्वं सदृष्टान्तं विशदयन् अध्यासं न्ध-

शब्दार्थमाह । अतस्मिन्निति ।
 

 
अतस्मिस्तद्बुद्धिः प्रभवति विमूढस्य तमसा

विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा ।

ततोनर्थव्रातो निपतति समादातुरधिक:
 

ततोयोसद्ग्राहः स हि भवति बन्धः शृणु सखे ॥ १४० ॥
 

 
तमसा अज्ञानेन विमूढस्य विवेकरहितचित्तस्य पुरुषस्य अतस्मिन्न-

नात्मनि देहादौ तद्बुद्धिः आत्मबुद्धिः प्रभवति जायते । तद्यथा विवेका

भावात् स्फुरति भासमाने भुजगे सर्पे नेयं रज्जुरिति भेदज्ञानाभावात्, वै

एव, रज्जुधिषणा रज्जुरिति बुद्धिः जायते । तत: रज्जुबुध्यनन्तरं उपा-

देयत्वधिया समादातुः भुजंगं स्वीकर्तुः अधिक: अनर्थव्रातः मरणपर्यन्त