This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
तरंगापार-संसारसिंधुं प्रतरेति । पुनरपि जननं पुनरपि मरणं इतिरीत्या

ब्रह्मज्ञानालाभे अविरततया प्रसज्यमान-जन्ममरणरूप-तरंगविशिष्ट:

अपारः ब्रह्मरूपपाराज्ञानात् अपारः यः संसारः स एव सिंधुः समुद्रः तं, प्रतर

प्रकर्षे्ण तर सद्योमुक्तिमाप्नुहीत्यर्थः । सततमपि ब्रह्मरूपेण संस्थः कृतार्थो

भव कर्तव्यान्तररहितो भवेत्यर्थः । "ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य

योगिनः । नैवास्ति किंचित्कर्तव्यं अस्ति चेन्न स तत्ववित् " ॥ इति

प्रमाणात् ॥ १३८॥
 
९२
 

 
एतावता ग्रन्थेन अस्ति कश्चित्स्वयं नित्यमित्यारभ्य एकादशभिः

श्लोकैः परमः क आत्मा इत्यस्य प्रश्नस्य उत्तरमुक्त्वा को नाम बंध:

इति शिष्यस्य प्रथमप्रश्नस्य उत्तरमाह । अत्रानात्मनीत्यादिना द्वाभ्यां ।

 
अत्रानात्मन्यहमिति मति-र्बन्ध एषोस्य पुंसः

प्राप्तोऽज्ञानाज्जननमरण-क्लेशसंपातहेतुः ।

येनैवायं वपुरिद-मसत्सत्यमित्यात्म-बुध्या
 

पुष्यत्यु-क्षत्यवति विषयैस्तंतुभिः कोशकृद्वत् ॥ १३९॥
 

 
अत्र पूर्वोक्तरीत्या वस्तुतः परमात्मन एव स्वस्वरूपत्वेपि, अज्ञानात्

अनादिसिद्धाविद्यावशात् प्राप्तः अस्य पुंसः अनात्मनि देहादौ अमितिमतिः

अहं मनुष्यः अहं क्षुत्पिपासादिमान् इच्छामि करोमि भुंजे इत्याद्या या मतिः

एष बन्ध इत्यन्वयः । तत्र हेतुः अज्ञानात्प्राप्त इति । भ्रमसामान्यस्य

दोषजन्यत्वात् शरीरादौ आत्मत्व भ्रमे स्वरूपाज्ञानमेव दोषत्वेनापि

कारणमिति भावः । अत्र प्रत्यक्षे देहादावनात्मनि इत्यप्यर्थः ।

सांख्यादिमते मूलाज्ञानानंगीकारेण बन्धमोक्षव्यवस्थैवानुपपन्नेति ज्ञेयम् ।

आज्ञानिकत्वे बन्धस्य अज्ञानस्य ज्ञानान्निवृत्तौ तन्मूलकस्य बन्धस्यापि

निवृत्तेः, अन्यथा बन्धस्य सत्यत्वात् ज्ञानमात्रनिवर्त्यत्वस्य दुर्वचत्वात्

दोषाभावे भ्रमस्य उत्पत्तुमशक्यत्वाच्च । बन्धस्य कार्यमाह जननमरण-

क्लेश- संपातहेतुरिति । जननं च मरणं च जननमरणे ताभ्यां क्लेशः दुःखं

तत्र सम्पातः संमग्नत्वं, तस्य हेतुः । जननमरणेत्युपलक्षणं दुःखहेतूनां

क्षुत्पिपासादीनां सर्वेषां, यद्वा जननं च मरणं च क्लेशाश्च जननमरण-

क्लेशाः तेषां संपातः स्वधर्मत्वेन ज्ञानं तत्र हेतुरित्यर्थः । अधुना क्लेशपदेन