This page has been fully proofread once and needs a second look.

प्रकृति-विकृतिभिन्नः शुद्धबोधस्वभावः
सदसदिदमशेषं भासयन्न्निर्विशेष: ।
विलसति परमात्मा जाग्रदादिष्ववस्था
स्वमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥१३७॥
 
प्रकृतिरविद्या, विकृतयः आकाशादयः तद्भिन्नः कार्यकारणव्यतिरिक्त
इत्यर्थः। शुद्धबोधस्वभावः शुद्धः निर्विषयः यः बोध: ज्ञानं तदेव स्वभावः
स्वरूपं यस्य सः केवलदृग्रूप इत्यर्थः । इदं प्रत्यक्षादिप्रमेयं सत् तेजआदि मूर्तं
असत् अमूर्तं आकाशवाय्वादिकं अशेषं समस्तं भासयन् प्रकाशयन् निर्विशेषः
निर्धर्मकः । परमात्मा जाग्रदादिषु जाग्रत्स्वप्न-सुषुप्त्यादिषु अवस्थासु
बुद्धेः साक्षिरूपेण सुषुप्तावपि बीजात्मना बुद्धेः सत्वात् । अहमहमिति
साक्षात् प्रत्यक्तया विलसति प्रकाशते ॥ १३७॥
 
अभेदेन परमात्मविज्ञानं मनो-नियमनं तद्वारा बुद्धिप्रसादं च हेतूकुर्वन्
"ब्रह्मसंस्थोमृतत्वमेति" इति श्रुत्यर्थं शिष्यं प्रत्युपदिशति । नियमितेति ।
 
नियमित-मनसामुं त्वं स्वमात्मान-
मात्मन्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।
जनिमरणतरंगापार-संसारसिंधुं
प्रतर भव कृतार्थों ब्रह्मरूपेण संस्थः ॥ १३८॥
 
त्वमात्मनि नियमितमनसा पंचम्यः कोशेभ्यो व्यावर्तितं परमात्मन्येव
श्रवणमनननिदिध्यासनैः स्थापितं यन्मनः तेन करणेन मनसैवेदमाप्तव्य-
मितिश्रुतेः । बुद्धिप्रसादात् असंभावना-संशयभावना विपरीतभावना-रूप-
दोषनाशेन विशुद्धा सकलविधदोषशून्या या बुद्धिः तस्याः प्रसादात्
अनुग्रहात् "दृश्यते त्वग्र्या बुध्या सूक्ष्मया" इति श्रुतेः "ज्ञानप्रसादेन
विशुद्धसत्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः" इतिश्रुतेश्च ।
स्वस्वरूपभूतं आत्मानं परमात्मानं "स आत्मा तत्वमसि" इति श्रुतेः
"असन्नेव स भवति असद्ब्रह्मेति वेद चेत् " इति श्रुतेश्च परमात्मन एव
मुख्यत्वात् । अयमहमिति साक्षाद्विद्धि अन्योसावन्योहं इत्येतावंतं कालं
स्थितां बुद्धिं विहाय अभेदेन साक्षात्कुरुष्वेत्यर्थः । तत्फलमाह जनिमरण-