This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
दर्शनश्रवणादीनां प्राणव्यापारस्य उच्छ्वास-निश्वासादेश्च ज्ञाता

इत्यर्थः । सकलांतरबाह्य-विकारसाक्षिणस्तस्यनिर्विकारत्वमाह अयोग्नि-

वदित्यादिना । अग्निरिवाग्निवत् यथाग्निः दीर्घं वा वर्तुलं वा अयः

अनुवर्तमानः तथा तथा व्यवह्रियते न वस्तुतः दीर्घवर्तुलतादिभाक्

एवं तान् मनोहंकृति - -देहेन्द्रियप्राणान् अनुवर्तमान: व्यापित्वेन स्वच्छत्वेन

च सर्वत्र प्रतिबिंमानोपि तत्तद्व्यापारवत्वेन व्यवह्रियमाणोपि वस्तुतः

न चेष्टते । स्वयं न विक्रियते । नो विकरोति किंचन कुत्रापि विक्रियां

नोत्पादयति च । सूर्यस्येव सानिध्यमात्रात् जडप्रवृत्तिहेतुत्वमात्मनः न तु

किंचिद्व्यापारवत इति भावः ॥१३५ ॥
 
९०
 

 
तमेवार्थं सहेतुकं विशदयति । न जायत इति ।

 
न जायते नो म्रियते न वर्धते
 

न क्षीयते नो विकरोति नित्यः ।

विलीयमानेपि वपुष्यमुष्मिन्
 

न लीयते कुंभ इवांबरं स्वयम् ॥ १३६॥
 

 
जायतेस्ति विपरिणमते वर्धते अपक्षीयते नश्यतीति जनन-स्थिति-

विपरिणाम-वृध्यपक्षयविनाशा: शरीरादेः दृष्टा: षड्विकाराः । अयं

परमात्मा नित्यः उत्पत्तिविनाशादिशून्यः अतः न जायते नोत्पद्यते, नो

म्रियते न नश्यति अतः आद्यन्तविकारशून्यत्वात् न वर्धते न वृद्धिरूपविकार-

वान्भवति, एवं न क्षीयते अपक्षयरूप- विक्रियावान्न भवति । उत्पत्ते-

रभावात् तदनन्तरकालिक-स्थितिरपि नैवास्ति । नित्यत्वेन निरवयव -

त्वात् विपरिणामो नास्तीति भावः । स्वयं विक्रियावत एव अन्यत्र

विकारहेतुत्वात् सर्वविध -विकारशून्य: नो विकरोतीति पूर्वश्लोकार्थ:

सहेतुकतया कथितोत्रेति मन्तव्यम् । अन्यत्र विक्रियां नोत्पादयतीत्यर्थः।

अमुष्मिन्वपुषि शरीरे विलीयमानेऽपि नश्यत्यपि कुंभे नश्यत्यंबरमिव

आकाशमिव स्वयं न लीयते स्वतः परतोवा विकारो नास्तीति

भावः ॥ १३६॥
 

 
सम्यज्ज्ञानार्थं
 
कृतीति
 
विज्ञानात्म-परमात्मनोः
 
स्वरूपमेकीकृत्याह।
 
कृतीति