2023-02-20 14:42:46 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
दर्शनश्रवणादीनां प्राणव्यापारस्य उच्छ्वास-निश्वासादेश्च ज्ञाता
इत्यर्थः । सकलांतरबाह्य-विकारसाक्षिणस्तस्यनिविकारत्वमाह अयोग्नि-
वदित्यादिना । अग्निरिवाग्निवत् यथाग्निः दीर्घं वा वर्तुलं वा अयः
अनुवर्तमानः तथा तथा व्यवह्रियते न वस्तुतः दीर्घवर्तुलतादिभाक्
एवं तान् मनोहंकृति - देहेन्द्रियप्राणान् अनुवर्तमान: व्यापित्वेन स्वच्छत्वेन
च सर्वत्र प्रतिबिंवमानोपि तत्तद्व्यापारवत्वेन व्यवह्रियमाणोपि वस्तुतः
न चेष्टते । स्वयं न विक्रियते । नो विकरोति किंचन कुत्रापि विक्रियां
नोत्पादयति च । सूर्यस्येव सानिध्यमात्रात् जडप्रवृत्तिहेतुत्वमात्मनः न तु
किंचिद्व्यापारवत इति भावः ॥१३५ ॥
९०
तमेवार्थं सहेतुकं विशदयति । न जायत इति ।
न जायते नो म्रियते न वर्धते
न क्षीयते नो विकरोति नित्यः ।
विलीयमानेपि वपुष्यमुष्मिन्
न लीयते कुंभ इवांबरं स्वयम् ॥ १३६॥
जायतेस्ति विपरिणमते वर्धते अपक्षीयते नश्यतीति जनन-स्थिति-
विपरिणाम-वृध्यपक्षयविनाशा: शरीरादेः दृष्टा: षड्विकाराः । अयं
परमात्मा नित्यः उत्पत्तिविनाशादिशून्यः अतः न जायते नोत्पद्यते, नो
म्रियते न नश्यति अतः आद्यन्तविकारशून्यत्वात् न वर्धते न वृद्धिरूपविकार-
वान्भवति, एवं न क्षीयते अपक्षयरूप- विक्रियावान्न भवति । उत्पत्ते-
रभावात् तदनन्तरकालिक-स्थितिरपि नैवास्ति । नित्यत्वेन निरवयव -
त्वात् विपरिणामो नास्तीति भावः । स्वयं विक्रियावत एव अन्यत्र
विकारहेतुत्वात् सर्वविध विकारशून्य: नो विकरोतीति पूर्वश्लोकार्थ:
सहेतुकतया कथितोत्रेति मन्तव्यम् । अन्यत्र विक्रियां नोत्पादयतीत्यर्थः।
अमुष्मिन्वपुषि शरीरे विलीयमानेऽपि नश्यत्यपि कुंभे नश्यत्यंबरमिव
आकाशमिव स्वयं न लीयते स्वतः परतोवा विकारो नास्तीति
भावः ॥ १३६॥
सम्यज्ज्ञानार्थं
कृतीति ।
विज्ञानात्म-परमात्मनोः
स्वरूपमेकीकृत्याह।