2023-02-20 14:42:46 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
च परमात्मन एव जीवभावेनावतिष्ठमानत्वात् शोधितत्वंपदार्थत्वेन
आत्मानमभिधाय तत्पदार्थत्वेन "अनश्नन्नन्यो अभिचाकशीति" इत्यादि-
श्रुत्यभिप्रेतमर्थमाह । अत्रैवेत्यादिना ।
अत्रैव सत्वात्मनि धीगुहायां
अव्याकृताकाश उरुप्रकाशः ।
आकाश उच्चै रविवत्प्रकाशते
८९
स्वतेजसा विश्वमिदं प्रकाशयन् ॥ १३४॥
66
अत्रैव साधकशरीर एव सत्त्वं आत्मा यस्याः धीगुहायाः सा सत्वात्मा
सत्वप्रधाना या धीः सैव गुहा । गूहू संवरणे इति धातुना, विज्ञानमय-
कोशत्वेन आत्मानं संवृणोतीति तस्यां धीगुहायां । उपादानत्वेन अनुस्यूतः
यः अव्याकृताकाश: माया तस्मिन् अव्याकृताकाशे । उरुप्रकाशः उरु:
अधिकः प्रकाशः ज्ञानरूपतया सर्वावभासकत्वात् तद्देवा ज्योतिषां
ज्योतिः" इतिश्रुतेः। आकाशः परमात्मा स्वतेजसा सूर्यादि-सकल- ज्योति-
रवभासक-ज्ञानरूप-प्रकाशेन "येन सूर्यस्तपति तेजसेद्ध: " इतिश्रुतेः । इदं
विश्वं दृश्यं सर्वं । प्रकाशयन् स्फोरयन् रविवत् सूर्यवत् । उच्चैः प्रकाशते
सर्वोत्कर्षेण भासते। उच्चै - रविवदिति वान्वयः आकाशमध्यवर्ति-सूर्य-इव
इत्यर्थः । एतेन पूर्वश्लोके "एषोंतरात्मा पुरुष " इत्यत्र कथितः पुरि
शरीरे शेत इत्यर्थ: अत्रेति स्थूलशरीरे धीगुहायामिति सूक्ष्मशरीरे
अव्याकृताकाश इति कारणशरीरे प्रकाशत इति कथनात् विवृतः ।
सकलदिगवस्थित वस्तुभासकत्वं गगनतलमध्यवर्ति रवेः प्रसिद्धं । तद्वत्
सर्वान्तर आत्मा सकलवस्त्ववभासक इति भावः ॥ १३४ ॥
((
ज्ञाता मनोहंकृति - विक्रियाणां देहेन्द्रिय प्राणकृत-क्रियाणां ।
अयोग्निवत्ताननु वर्तमानो नचेष्टते नो विकरोति किंचन ॥१३५॥
मनोहंकृतिविक्रियाणां मनश्च अहंकृतिश्च मनोहंकृती तयोविक्रियाः
तासां ज्ञाता कामसंकल्पादीनां मनोविक्रियाणां गर्वदर्पादीनां अहंकार-
विकाराणां आन्तराणां ज्ञाता । तथा बाह्यानां देहेन्द्रियप्राणकृतक्रियाणां
देहश्च इन्द्रियाणि च प्राणश्च देहेन्द्रियप्राणाः तैः कृताः क्रियाः। देहशब्देन
कर्मेन्द्रियाणां विवक्षितत्वात् वचनादीनां चक्षुरादिज्ञानेन्द्रियव्यापाराणां