2023-02-25 06:54:10 by Vasant
This page has been fully proofread once and needs a second look.
विषयाः शब्दादयः, सुखादयः
स्सिद्ध-ज्ञानस्वरूपेण येन घटवत् घट इव वेद्यन्ते ज्ञायन्ते । स आत्माइत्यन्वयः।
तेन सुखादीनां दृश्यत्वात् द्रष्टृधर्मत्वं नास्तीत्यसंगत्वमुक्तमात्मनः ।
अहंकारादि-
श्लोकोक्तं पंचकोशविलक्षणत्वं संग्रहेण कथितम् । इदमुत्तरत्र स्पष्ट-
यिष्यते "देहोयमन्नभवन " इत्यादिना ॥
८८
एषोन्तरात्मा पुरुषः पुराणो निरन्तराखण्ड
सदैकरूप : प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति ॥१३३॥
येन इषिताः सन्निधिमात्रेण प्रेरिताः वाक्चासवश्च वागसवः ।
इदं सर्वस्य कार्यकरणसंघातस्योपलक्षणं । वाक् असव इति भिन्नं वा पदं ।
वागि
<error>वागिंन्द्रियं</error><fix>वागिन्द्रियं</fix> प्राणाश्चरन्ति शब्दोच्चारणोच्छ्वास - निश्वासादीनि कर्माणि
स्वकीयानि कुर्वन्ति । एषः अन्तरात्मा लोकसिद्धानां श्रुत्यापि ब्रह्म-
प्रतिपत्तिहेतुत्वेन अन्नमयाद्यानन्दमयान्तानां कोशानां कल्पितानां
कल्पनाधिष्ठानत्वेन सर्वानुगततया भूच्छिद्र-सर्प-दण्ड- जलधारादिष्विव
रज्जुर्भासमानः अन्तरात्मा । पुरुष: पूर्ण: पुरि शरीरे शेत इति वा पुरुषः ।
पुराण: पुरापि नव एव सनातनः । निरंतराखण्डसुखानुभूतिः निरंतरं
निरवधिकं अत एव अखण्डं अपरिच्छिन्नं यत्सुखं आनंदः या च निरंतरा
अखण्डा च अनुभूतिः "यत्साक्षादपरोक्षाद्ब्रह्म " इति श्रुतेः तत्स्वरूपः ।
सदैकरूपः निर्विकार इत्यर्थः । प्रतिबोधमात्रः बोधे बोधे प्रतिबोधं मीयत इति
मात्रः सकलबुद्धि-वृत्तिषु अनुगततया काष्ठादिष्विवाग्निः ज्ञात इत्यर्थः ।
" प्रतिबोधविदितं मतं " इति श्रुतेः । ज्ञानस्वरूपत्वं निरंतराखण्ड-
सुखानुभूतिरित्यत्रोक्तम् । गुरूपदेशजन्यबोधो वा प्रतिबोधः तत्र विषय
इत्यर्थ: गुरुणाप्रतिबोधित इति प्रसिद्धेः । सुप्त प्रतिबुद्ध इति प्रसिद्धेः
अविद्यास्वाप
तत्र विषय इति वार्थः ॥ १३३॥
"सर्वाणि रूपाणि विचित्य धीरः, नामानि कृत्वाभिवदन् यदास्ते "
इत्यादिश्रुत्यनुसारेण "अवस्थितेरिति काशकृत्स्न: