This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
जडं हि स्वकार्यार्थं चेतनमपेक्षते न चेतनस्य पराकांक्षा ।
अयमात्मा
इत्यन्वयः ॥१२९॥
 
366
 

 
येन विश्वमिदं व्याप्तं यं न व्याप्नोति किंचन ।

अभारूपमिदं सर्वं यं भान्तमनुभात्ययम् ॥ १३०॥

 
सर्वोपादानतया येन सर्वान्तरेण इदं विश्वं जगत् व्याप्तं विशेषेणाप्तम्

संबद्धं । किंचन किमपि वस्तु यमात्मानं न व्याप्नोति अस्य सर्वस्य

बाह्यत्वात् " विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत् ' " "विकारावति
र्ति
च तथाहि स्थितिमाह " "पादोस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि "

इति स्मृतिसूत्रश्रुतिभ्यः, "ज्यायान्पृथिव्याः ज्यायानन्तरिक्षात् ज्यायानेभ्यो

लोकेभ्यः" इत्यादिश्रुतेश्च । अभारूपं अप्रकाशरूपं जडमित्यर्थः । इदं

सर्वं चिद्रूपं यं भान्तं अनुभाति "तमेव भान्तमनुभाति सर्वं " इति श्रुतेः

अयमात्मा इत्यन्वयः । अत्र सत्यं ज्ञानमनंतं ब्रह्मेति श्रुत्युक्तं आनंत्यं

देशपरिच्छेदशून्यत्वकथनेन कथितं बोध्यम् ॥ १३० ॥
 
"
 
41
 

 
यश्चेतयति बुध्यादि इत्युक्तं विवृणोति । यस्येत्यादिना ।

 
यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः ।
 

विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥ १३१ ॥
 

 
"
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
 
"
 

केनेषितां वाचमिमां वदंति चक्षुश्रोत्रं कउ देवो युनक्ति " इति पृष्ट्वा
'

"
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः चक्षुषश्चक्षुः
"
इत्युत्तरितमर्थमाह यस्य आत्मनः संनिधिमात्रेण अभिमानरूप-संन्ध
-
वशात्। देहेन्द्रियमनोधियः अत्र देहशब्देन वाक्पाणिपादादीनि कर्मेन्द्रियाणि

गृह्यंते। इन्द्रियपदेन श्रोत्रादीनि ज्ञानेन्द्रियाणि मनः अन्तःकरणं । धीः कर्त्री

न बुद्धिः । स्वकीयेषु विषयेषु वचनादानगमनादिषु श्रवणदर्शन स्पर्शनादि
षु
संकल्पनविकल्पनादिषु लौकिकवैदिक-कार्येषु च प्रेरिता इव स्पष्टं जडानां

स्वतो व्यापाराभावात्। वर्तन्ते स आत्मा इत्यन्वयः ॥१३१॥
 
(6
 
८७
 
अयमात्मा
 

 
अहंकारादिदेहान्ता विषयाश्च सुखादयः ।
 

वेद्यन्ते घटवद्येन नित्यबोधस्वरूपिणा ॥ १३२॥
 
में