This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
जडं हि स्वकार्यार्थं चेतनमपेक्षते न चेतनस्य पराकांक्षा ।
इत्यन्वयः ॥१२९॥
 
366
 
येन विश्वमिदं व्याप्तं यं न व्याप्नोति किंचन ।
अभारूपमिदं सर्वं यं भान्तमनुभात्ययम् ॥ १३०॥
सर्वोपादानतया येन सर्वान्तरेण इदं विश्वं जगत् व्याप्तं विशेषेणाप्तम्
संबद्धं । किंचन किमपि वस्तु यमात्मानं न व्याप्नोति अस्य सर्वस्य
बाह्यत्वात् " विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत् ' विकारावति
च तथाहि स्थितिमाह " "पादोस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि "
इति स्मृतिसूत्रश्रुतिभ्यः, "ज्यायान्पृथिव्याः ज्यायानन्तरिक्षात् ज्यायानेभ्यो
लोकेभ्यः" इत्यादिश्रुतेश्च । अभारूपं अप्रकाशरूपं जडमित्यर्थः । इदं
सर्वं चिद्रूपं यं भान्तं अनुभाति "तमेव भान्तमनुभाति सर्वं " इति श्रुतेः
अयमात्मा इत्यन्वयः । अत्र सत्यं ज्ञानमनंतं ब्रह्मेति श्रुत्युक्तं आनंत्यं
देशपरिच्छेदशून्यत्वकथनेन कथितं बोध्यम् ॥ १३० ॥
 
"
 
41
 
यश्चेतयति बुध्यादि इत्युक्तं विवृणोति । यस्येत्यादिना ।
यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः ।
 
विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥ १३१ ॥
 
केषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रति युक्तः ।
 
"
 
केनेषितां वाचमिमां वदंति चक्षुश्रोत्रं कउ देवो युनक्ति " इति पृष्ट्वा
'श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः चक्षुषश्चक्षुः
इत्युत्तरितमर्थमाह यस्य आत्मनः संनिधिमात्रेण अभिमानरूप-संवन्ध
वशात्। देहेन्द्रियमनोधियः अत्र देहशब्देन वाक्पाणिपादादीनि कर्मेन्द्रियाणि
गृह्यंते। इन्द्रियपदेन श्रोत्रादीनि ज्ञानेन्द्रियाणि मनः अन्तःकरणं । धीः कर्त्री
न बुद्धिः । स्वकीयेषु विषयेषु वचनादानगमनादिषु श्रवणदर्शन स्पर्शनादिष
संकल्पनविकल्पनादिषु लौकिकवैदिक-कार्येषु च प्रेरिता इव स्पष्टं जडानां
स्वतो व्यापाराभावात्। वर्तन्ते स आत्मा इत्यन्वयः ॥१३१॥
 
(6
 
८७
 
अयमात्मा
 
अहंकारादिदेहान्ता विषयाश्च सुखादयः ।
 
वेद्यन्ते घटवद्येन नित्यबोधस्वरूपिणा ॥ १३२॥
 
में