This page has been fully proofread once and needs a second look.

.
 
८६
 
श्रीविवेकचूडामणिः सव्याख्यः
 
अस्ति कश्चित् स्वयं नित्यंमहंप्रत्यय-लंबनः ।

अवस्थात्रय -साक्षी सन् पंचकोशविलक्षणः ॥ १२७॥
 

 
स्वयं, सत्तास्फूर्तिविषये परानपेक्षः, अहंप्रत्यय-लंबन: अहमाकार-

वृत्तिमन्मनस्तदात्म्यापन्नतया अहंवृत्तेराश्रयः । अहंप्रत्ययः अहंवृत्तिः लंबनं
बि

बिंब
ग्राहिणी यस्य सः अहंप्रत्यय-लंबन: अहंवृत्तिविषय इत्यप्यर्थः ।

अवस्थात्रयसाक्षी सन् जाग्रत्स्वप्न -सुषुप्तिरूपावस्थात्रय -साक्षाद्द्रष्टा सन् ।

पंचकोशविलक्षणः अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमय-व्यति-

रिक्तः । स नित्यं सर्वदा कश्चिदस्ति स एव आत्मेति शेषः । अत्र कालत्रया-

बाध्यत्वरूप-सद्रूपत्वमुक्तं ॥ १२७॥
 

 

 
अवस्थात्रय -साक्षित्वमुपपादयति । य इत्यादिना ।

 
यो विजानाति सकलं जाग्रत्स्वप्न- सुषुप्तिषु ।

बुद्धि -तद्वृत्ति -सद्भाव अभावमहमित्ययम् ॥ १२८॥

 
इदमिदं पश्यामि अनुमिनोमि शब्दात् प्रत्येमि स्मरामीत्यादि-

प्रकारेण जाग्रत्स्वप्नयोः बुद्धितद्वृत्तिसद्भावं । नकिकिंचिदवेदिषमिति

सुषुप्त्यनन्तरकालिक-स्मृत्यनुसारेण सुषुप्तौ बुद्धितद्वृत्यभावं च यो

विजानाति सकलं जाग्रद्भावान् स्वाप्नपदार्थान् सुषुप्तावज्ञानं च अहमहं

इदं जानामि अज्ञासिषं ज्ञास्यामीत्यनुभवात् । अयमात्मा इत्यन्वयः

॥ १२८॥
 

 
इतरावेद्यत्वेन सर्वद्रष्टृत्वेन च ज्ञानस्वरूपत्वमाह । यः पश्यती-

त्यादिना ।
 

 
यः पश्यति स्वयं सर्वं यं न पश्यति किंचन ।

यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥ १२९॥
 

 
यः पश्यति स्वयं सर्वं " नान्योतोस्ति द्रष्टा" इति श्रुतेः ।
 
"
 

यं न
पश्यति किंचन "न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः "
"न
चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः
 
"
 
"नैव वाचा न मनसा प्राप्तुं
 

शक्यो न चक्षुषा" इत्यादिश्रुतिभ्यः । यः बुध्यादि जडं चेतयति स्वप्रति-

फलनेन चेतनवत्करोति । तत् बुध्यादि यं न चेतयति स्वतः चेतनत्वात् ।
 
"