This page has not been fully proofread.

.
 
८६
 
श्रीविवेकचूडामणिः सव्याख्यः
 
अस्ति कश्चित् स्वयं नित्यंमहंप्रत्यय-लंबनः ।
अवस्थात्रय साक्षी सन् पंचकोशविलक्षणः ॥ १२७॥
 
स्वयं, सत्तास्फूतिविषये परानपेक्षः, अहंप्रत्यय-लंबन: अहमाकार-
वृत्तिमन्मनस्तदात्म्यापन्नतया अहंवृत्तेराश्रयः । अहंप्रत्ययः अहंवृत्तिः लंबनं
बिग्राहिणी यस्य सः अहंप्रत्यय-लंबन: अहंवृत्तिविषय इत्यप्यर्थः ।
अवस्थात्रयसाक्षी सन् जाग्रत्स्वप्न सुषुप्तिरूपावस्थात्रय साक्षाद्रष्टा सन् ।
पंचकोशविलक्षणः अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमय-व्यति-
रिक्तः । स नित्यं सर्वदा कश्चिदस्ति स एव आत्मेति शेषः । अत्र कालत्रया-
बाध्यत्वरूप-सद्रूपत्वमुक्तं ॥ १२७॥
 

 
अवस्थात्रय साक्षित्वमुपपादयति । य इत्यादिना ।
यो विजानाति सकलं जाग्रत्स्वप्न- सुषुप्तिषु ।
बुद्धि तद्वृत्ति सद्भाव अभावमहमित्ययम् ॥ १२८॥
इदमिदं पश्यामि अनुमिनोमि शब्दात् प्रत्येमि स्मरामीत्यादि-
प्रकारेण जाग्रत्स्वप्नयोः बुद्धितद्वृत्तिसद्भावं । नकिचिदवेदिषमिति
सुषुप्त्यनन्तरकालिक-स्मृत्यनुसारेण सुषुप्तौ बुद्धितद्वृत्यभावं च यो
विजानाति सकलं जाग्रद्भावान् स्वाप्नपदार्थान् सुषुप्तावज्ञानं च अहमहं
इदं जानामि अज्ञासिषं ज्ञास्यामीत्यनुभवात् । अयमात्मा इत्यन्वयः
॥ १२८॥
 
इतरावेद्यत्वेन सर्वद्रष्टृत्वेन च ज्ञानस्वरूपत्वमाह । यः पश्यती-
त्यादिना ।
 
यः पश्यति स्वयं सर्वं यं न पश्यति किंचन ।
यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥ १२९॥
 
यः पश्यति स्वयं सर्वं " नान्योतोस्ति द्रष्टा इति श्रुतेः ।
 
"
 
यं न
पश्यति किंचन "न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः "न
चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः
 
"
 
"नैव वाचा न मनसा प्राप्तुं
 
शक्यो न चक्षुषा" इत्यादिश्रुतिभ्यः । यः बुध्यादि जडं चेतयति स्वप्रति-
फलनेन चेतनवत्करोति । तत् बुध्यादि यं न चेतयति स्वतः चेतनत्वात् ।
 
"