This page has been fully proofread once and needs a second look.

विद्वत्वम् । अस्मात्परं आत्मानात्मविवेचनं । इदं ग्रंथ एवोत्तरत्र स्पष्ट-
यिष्यते । तेन मननं युक्तिभिः श्रुतार्थदृढीकरणार्थ- मनुचिन्तनरूपं
संशयभावनानिरासकमुक्तं भवति । ततः स्वनुभवः, निदिध्यासनपूर्वक-
ब्रह्मसाक्षात्कारःकथितो भवति । अत एव स्वनुभव इत्युक्तं, विपरीत-
भावना - निवर्तकनिदिध्यासनाभावे श्रवणमननाभ्यांजायमानानुभव:
सौष्ठवं नाश्नुत इति । एतेन शुभेच्छा विचारणा तनुमानसा सत्वापत्ति-
श्चेति ज्ञानभूमिकाचतुष्टयं कथितमासीत् । असंसक्तिः पदार्थाभावना
तुर्यगाच, "ब्रह्मात्मना संस्थितिः मुक्तिः" इत्यत्र संस्थितिशब्देन
वासनाक्षयमनोनाश-सहकृतस्वनुभवबोधकेन व्यंजिताः । तेन सालोक्य
सामीप्य-सारूप्य-सायुज्यानां मुख्यमुक्तित्वाभावश्च सूचितो भवति ।
सगुणविषयकतया तेषां चतुर्णामपि मिथ्यात्वात्, परिच्छेदत्रयशून्यत्व-
रूपब्रह्मत्वस्य सगुणेऽसंभवात् । ब्रह्मात्मना संस्थितिः कल्पित सकल-
विधोपाधिसंबंध-विधुर-नित्यशुद्ध-बुद्धमुक्त-प्रत्यगभिन्न - परिपूर्णस्वरूपेणाव-
स्थानं कैवल्यमेव मुक्तिः, शतकोटिजन्मसु कृतैः पुण्यैर्विना नो लभ्यते इत्यन्वयः ॥
 
दुर्लभं त्रयमेवैतत् दैवानुग्रहहेतुकम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥३॥
 
लब्ध्वा कथंचित् नरजन्म दुर्लभं,
तत्रापि पुंस्त्वं श्रुतिपरादर्शनम् ।
यस्स्वात्ममुक्त्यै न यतेत मूढधी:,
स आत्महा स्वं विनिहन्त्यं सद्ग्रहात् ॥४॥
 
इत: कोन्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥
 
पठन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः ।
आत्मैक्यबोधेन विना विमुक्तिःन सिध्यति ब्रह्मशतान्तरेपि ॥ ६ ॥
 
अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।
ब्रवीति कर्मणो मुक्तेःअहेतुत्वं स्फुटं यतः ॥७॥