This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
माया मायाकार्यं सर्वं महदादि देहपर्यन्तं ।

असदिदमनात्मतत्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥१२५॥
 
८५
 

 
माया मूलप्रकृतिः, महत् महत्तत्वं "तदैक्षतेति " श्रुतिसिद्धं ईक्षणं

तदादि यस्य देहपर्यन्तस्य मायाकार्यस्य तन्महदादि । अहंकार: ईश्वर-

संकल्प: "सोऽकामयतेति " श्रुतिसिद्धः । ततः पंच सूक्ष्मभूतानि, ततः

पंचीकृतानि स्थूलभूतानि, ततः ब्रह्माण्डं, तत्र चतुर्दशभुवनानि तदंतर्वर्ति-

स्थूलदेहादयः एतत्सर्वं देहपर्यन्तं मायाकार्यं त्वं इदं मायां मायाकार्यं च

अनात्मतत्वं आत्मव्यतिरिक्तपदार्थ कोसावनात्मेति प्रश्नोत्तरविषयं असत्

सद्रूपात्मभिन्नं । अत एव पूर्वोक्त -शुद्धाद्धय-ब्रह्मविबोध-नाश्यत्वादि-

हेतुना मरुमरीचिकाकल्पं मृगतृष्णिकासदृशं दृष्टनष्टस्वरूपत्वेन मिथ्या-

भूतं विद्धि जानीहि । घर्मकाले मरुभूमौ मिहिरमरीचयः पतिताः

महावारिप्रवाह-बुद्धिधिं जनयन्ति । वस्तुतस्तु विशेषदर्शने तत्र जलं किंचिदपि

नास्ति । तथा ब्रह्मज्ञानात्प्राक् माया तत्कार्यं च भासते । तत्साक्षात्कारे

च प्रवीबीधे स्वप्नवत् सर्व सहमूलं विनश्यतीति दृष्टनष्टस्वरूपत्वं तेषां, ततो

मरुमरीचिकावन्मिथ्यात्वं । मरुषु मरीचिकाः मरुमरीचिकाः । उक्तार्थ्-

मिदं पदम् ॥१२५॥
 

 
एवमनात्मानं निरवशेषमुक्त्वा परमः क आत्मा इति प्रश्नस्य

उत्तरंवक्तुमारभते । अथेति ।
 

 
अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः ।
 

यद्विज्ञाय नरो बंधान्मुक्त: कैवल्यमश्नुते ॥१२६॥
 

 
अथशब्दः अनात्मप्रतिपादनानन्तर्यार्थिकः । यत्परमात्मस्वरूपं विज्ञाय

साक्षात्कृत्य, नरः विद्याधिकारी पुरुषः, बन्धात् अहंकारादिदेहान्ताद् बन्धात्

मुक्तः त्यक्ततत्तादात्म्याध्यासः कैवल्यं सर्वोपाधिसंबंध-विनिर्मुक्तत्वेन

केवल दृग्रूपत्वं निर्भेदसच्चिदानन्दरूपत्वं च अश्नुते प्राप्नोति । तत्
 

परमात्मनः स्वरूपं याथात्म्यं ते तव संप्रवक्ष्यामि सम्यक् स्पष्टं प्रकर्षेण

विस्तरेण वक्ष्यामि कथयिष्यामीत्यर्थः ॥ १२६॥
 

 
आत्मानं वक्तुं प्रक्रमते । अस्तीति ।