This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
सर्वे प्रकाराः प्रत्यक्षत्वानुमितित्वादयः यासां प्रमितीनां तासां

प्रकर्षेण शान्तिः प्रशान्ति: उपरमः यत्र सुषुप्तौ सा सर्वप्रकार - -प्रमिति -
-
प्रशान्तिः । तर्हि परदिने व्यवहारः कथमिति चेत् तत्राह बीजात्मनेति ।

बुद्धेरंतःकरणस्य बीजात्मना संस्कारात्मना कारणाज्ञानात्मनेत्यर्थः ।

अवस्थितिरेव न स्वकार्यवृत्यात्मनावस्थितिः तदेत्येवकारेण प्रतीयते ।

सैव सुषुप्तिः । तदा सर्वप्रकारज्ञानाभावे सर्वानुभवं प्रमाणयति । अत्र

सुषुप्तिविषये । अस्य सुप्तप्रबुद्धस्य जीवस्य किकिंचिन्न वेद्मीति जानामीति

प्रतीतिः । किल प्रसिद्धा इत्यर्थः । यदि बुद्धिकार्यभूता वृत्तिः स्यात् तदा

किंचिन्न वेद्मीति प्रतीतिर्नस्यात् जाग्रत्स्वप्नयोस्तथाप्रतीतेरभावादिति

भावः । अनुभवे विवदमानं प्रत्यह जगत्प्रसिद्धेरिति ।

प्रसिद्धप्रतीतौ विवादोसंगत इत्यभिप्रायः ॥ १२३॥
 

 
तथाच सर्व-
८४
 

इदानीं आत्मानात्मविवेचनार्थं प्रतिपिपादयिषितं अनात्मान-

मुपसंहरति । देहेति ।
 

 
देहेन्द्रिय-प्राणमनोहमादयः
 

सर्वे विकारा विषया स्सुखादयः ।

व्योमादिभूतान्यखिलं च विश्वं

अव्यक्तपर्यन्त-मिदंह्यनात्मा ॥ १२४॥
 

 
देहश्च इन्द्रियाणि च प्राणश्च मनश्च अहं च देहेन्द्रिय -प्राणमनोहमः

आदयः येषां बुध्यादीनां विकाराणां ते सर्वे विकाराः भौतिकाः पदार्थाः ।

विषयाः शब्दस्पर्श-रूपरसगंधाः । सुखादयः सुखं आदिर्येषां दुःखमोह-

संकल्पादि-वृत्तीनां भयांतानां मनःपरिणामानां ते सुखादयः । व्योम

आकाशं आदि येषां तानिपृथिव्यन्तानि -भूतानि किकिं बहुना इदं परिदृश्य-

मानं अव्यक्तपर्यन्तं अखिलं समस्तं, विश्वं जगत्, अनात्मा । एतेन

कोसावनात्मेत्यस्य उत्तरं दत्तम् ॥१२४॥
 
अन्तिमकार्य

 
अन्तिमकार्य-
प्रभृति आदिमपरिणाम्युपादान-पर्यन्तं सर्वं अनात्मे-

त्युक्तम् । तद्वैपरीत्येन आदिम परिणाम्युपादानात् अन्तिमकार्य -पर्यन्तं

सर्वं तथेति दार्ढ्यार्थं वदन् तस्य मिथ्यात्वमपि कथयति । मायेति ।