This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
सर्वे प्रकाराः प्रत्यक्षत्वानुमितित्वादयः यासां प्रमितीनां तासां
प्रकर्षेण शान्तिः प्रशान्ति: उपरमः यत्र सुषुप्तौ सा सर्वप्रकार - प्रमिति -
प्रशान्तिः । तर्हि परदिने व्यवहारः कथमिति चेत् तत्राह बीजात्मनेति ।
बुद्धेरंतःकरणस्य बीजात्मना संस्कारात्मना कारणाज्ञानात्मनेत्यर्थः ।
अवस्थितिरेव न स्वकार्यवृत्यात्मनावस्थितिः तदेत्येवकारेण प्रतीयते ।
सैव सुषुप्तिः । तदा सर्वप्रकारज्ञानाभावे सर्वानुभवं प्रमाणयति । अत्र
सुषुप्तिविषये । अस्य सुप्तप्रबुद्धस्य जीवस्य किचिन्न वेमीति जानामीति
प्रतीतिः । किल प्रसिद्धा इत्यर्थः । यदि बुद्धिकार्यभूता वृत्तिः स्यात् तदा
किंचिन्न वेमीति प्रतीतिर्नस्यात् जाग्रत्स्वप्नयोस्तथाप्रतीतेरभावादिति
भावः । अनुभवे विवदमानं प्रत्यह जगत्प्रसिद्धेरिति ।
प्रसिद्धप्रतीतौ विवादोसंगत इत्यभिप्रायः ॥ १२३॥
 
तथाच सर्व-
८४
 
इदानीं आत्मानात्मविवेचनार्थं प्रतिपिपादयिषितं अनात्मान-
मुपसंहरति । देहेति ।
 
देहेन्द्रिय-प्राणमनोहमादयः
 
सर्वे विकारा विषया स्सुखादयः ।
व्योमादिभूतान्यखिलं च विश्वं
अव्यक्तपर्यन्त-मिदंनात्मा ॥ १२४॥
 
देहश्च इन्द्रियाणि च प्राणश्च मनश्च अहं च देहेन्द्रिय प्राणमनोहमः
आदयः येषां बुध्यादीनां विकाराणां ते सर्वे विकाराः भौतिकाः पदार्थाः ।
विषयाः शब्दस्पर्श-रूपरसगंधाः । सुखादयः सुखं आदिर्येषां दुःखमोह-
संकल्पादि-वृत्तीनां भयांतानां मनःपरिणामानां ते सुखादयः । व्योम
आकाशं आदि येषां तानिपृथिव्यन्तानि भूतानि कि बहुना इदं परिदृश्य-
मानं अव्यक्तपर्यन्तं अखिलं समस्तं, विश्वं जगत्, अनात्मा । एतेन
कोसावनात्मेत्यस्य उत्तरं दत्तम् ॥१२४॥
 
अन्तिमकार्य प्रभृति आदिमपरिणाम्युपादान-पर्यन्तं सर्वं अनात्मे-
त्युक्तम् । तद्वैपरीत्येन आदिम परिणाम्युपादानात् अन्तिमकार्य पर्यन्तं
सर्वं तथेति दायर्थं वदन् तस्य मिथ्यात्वमपि कथयति । मायेति ।