This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
सा परमात्मनिष्ठा परमात्मन्येव नितरां स्थितिः । स्वरूपानन्दविलोकनेन

मनो व्यत्थातुमशक्तं लीनं निर्विकल्पक-समाधिमनुभवतीति भावः
॥१२१॥
 
८३
 

 
इदानीं गुणत्रयमयस्य मायाविद्यादिशब्दरभिहितस्य अव्यक्तस्य

कार्यानुमेयस्य स्थूलसूक्ष्मादिसकलकार्यहेतुत्वात् ज्ञाननाश्यत्वाच्च शीर्यत

इति व्युत्पत्या कारणशरीरत्वं च वदन् अव्यक्तनाम्नीत्यादिना उपक्रान्तां

मायामुपसंहरति अव्यक्तमेतदिति ।
 

 
अव्यक्तमेतत्त्रिगुणै-निरुक्तं तत्कारणं नाम शरीरमात्मनः ।

सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीन सर्वेन्द्रिय बुद्धिवृत्तिः ॥ १२२ ॥
 

 
अव्यक्तं स्वस्वरूपतः साक्षादस्पष्टं । एतत्त्रिगुणैः त्रयश्च ते गुणाश्च

त्रिगुणाः एते च ते त्रिगुणाश्च एतत्त्रिगुणाः, कामक्रोधाज्ञाना-लस्या-

मानित्वादिभि-र्धर्मैरनुमेयै: रजस्तमस्सत्वगुणैः, निरुक्तं त्रिगुणात्मिका

कार्यानुमेया इति पूर्वं कथितं कृतनिर्वचनमित्यर्थः । तत् अव्यक्तं अविद्यादि
 

शब्दवाच्यं आत्मन: कारणं नाम शरीरं । शास्त्रे कारणशरीरमिति

प्रसिद्धमित्यर्थः । अस्यासाधारणीमस्थामाह सुषुप्तिरिति । एतस्य

कारणशरीरस्य अव्यक्तस्य । प्रलीनसर्वेन्द्रियबुद्धिवृत्तिरिति सुषुप्ते-

र्
विशेषणं । सर्वाणि चतानीन्द्रियाणि च सर्वेन्द्रियाणि तानि च बुद्धिश्च

सर्वेन्द्रियबुद्धयः तासां वृत्तयः सर्वेन्द्रियबुद्धिवृत्तयः प्रलीना यस्यां सुषुप्तौ

सा प्रलीन सर्वेन्द्रियबुद्धिवृत्तिः । एतेन सर्वेन्द्रियवृत्तिमत्या जाग्रदवस्थायाः

केवलबुद्धिवृत्तिमत्याःस्वप्नावस्थायाश्च व्यावृत्तिः कृता ।

विभक्त्यवस्था
विभाजकावस्था । अज्ञानस्य अवस्थात्रये सत्वेपि इतरावस्थयोः स्वेत-

रसाधारणत्वात् स्वमात्रस्य सुषुप्तिरसाधारणण्यवस्थेति भावः ॥ १२२॥

 
अन्तिमपादार्थं अनुभवेन स्पष्टयति । सर्वेति ।
सर्वप्रकार

 
सर्वप्रकार
- प्रमिति - प्रशान्ति-

बीजात्मनावस्थितिरेव बुद्धः ।
 
धेः ।
सुषुप्तिरत्रास्य किल प्रतीतिः
 

किंचिन्नवेद्मीति जगत्प्रसिद्धेः ॥१२३॥