This page has not been fully proofread.

८२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
क्षमा। उत्पन्नस्य क्रोधस्य सद्यश्शमनमक्रोध इति ततो भेदः । दुःखादिभिः
सीदतः चित्तस्य स्थिरीकरणं धृतिः । बाह्यांतरशुद्धिः शौचं । परजिघांसया
शस्त्राद्यग्रहणं अद्रोहः । आत्मनि पूज्यत्वातिशयभावना अतिमानिता
तदभावो नातिमानिता । तया च तत्कार्यं पूज्येषुनम्रत्वमुपलक्ष्यते। त
एते षड्विशतिरभयादयो धर्माः देवयोग्य-सात्विक शुभवासनारूपसंपत्ति
शरीरारंभकाले पुण्यकर्मभिः अभिव्यक्तामभिलक्ष्य जातस्य पुरुषस्य भवंति
निष्पद्यन्ते । "तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च पुण्यः पुण्येन
कर्मणा भवति पापः पापेनेति " श्रुतेरिति भावः । असन्निवृत्तिः असतः
ब्रह्मव्यतिरिक्तात् निवृत्तिः । यद्वा "नाविरतो दुश्चरितात्" इतिश्रुतेः
अवृजिनत्वमर्थः ॥१२०॥
 
" 66
 
एवं रजस्तमसोः सत्वेपि ताभ्यामनभिभवनीय-सत्वधर्मानुक्त्वा
ताभ्यां सुतरामसंस्पृश्यमान-सत्वधर्मानाह । विशुद्धेति ।
विशुद्धसत्वस्य गुणाः प्रसादः
 
स्वात्मानुभूतिः परमा प्रशान्तिः ।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
 
यया सदानन्दरसं समृच्छति ॥ १२ ॥
 
विशुद्धत्वं च रजस्तमोशबलितत्वं । केवलसत्वस्य गुणाः कार्य-
भूतधर्माः, प्रसादः मनोनैर्मल्यं । आवरकस्य तमसः विक्षेपकस्य रजसश्च
अभावात् अप्रतिबन्धं स्वात्मानुभूतिः । यदातमसाव्रियते आत्मतत्वं तदा
तस्य स्पष्टमभानात् अन्नमयादीनां भानं । केवलसत्वे तु स्वस्वरूपं
निष्प्रत्यूहं अनुभूयत इति भावः । अत एव परमा निरतिशया प्रकृष्टा
शान्तिः। वक्ष्यते चोत्तरत्र "कस्तां परानन्दरसानुभूति उत्सृज्य शून्येषु
रमेत विद्वान् । चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं
क इच्छेत् इति । पूर्वं साधकदशायां प्रयत्नेन संपाद्यमाना शान्तिः
आत्मदर्शने स्वभावभूता भवतीति भावः । अत एव फल्गुप्रपंच- संचारा-
भावात् मनसः तृप्तिः अलंबुद्धिः निरंकुशा । प्रहर्षः साधनानधीनः स्वयं
सर्वदा स्फुरन्नानंदः । यद्वा कृतं कृत्यं प्रापणीयं प्राप्तं इत्येवं स्वात्मानं
धन्यं मत्वा हृष्यतीति प्रकृष्टो हर्षः । यया सदानंदरसं समृच्छति सम्यगश्नुते
 
"