2023-02-20 14:42:45 by ambuda-bot
This page has not been fully proofread.
८१
श्रीविवेकचूडामणिः सव्याख्यः
37
लक्षणायाः परभक्तेस्साधनं । मुमुक्षुता स्वस्वरूपसाक्षात्कारेण आविद्य-
कानां अहंकारादि-देहान्तानां वन्धानां निवृत्तीच्छा । दैवीसंपत्तिः सापि
गीतासु षोडशाध्याये "अभयं सत्वसंशुद्धिः" इत्यादिना कथिता । (" अभयं
सत्वसंशुद्धि-र्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप
आर्जवं । अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनं । दया भूतेष्वलोलुप्त्वं
मार्दवं ह्रीरचापलं । तेजः क्षमा धृतिश्शौचं अद्रोहो नातिमानिता ।
भवंति संपदं दैवीमभिजातस्य भारत । इति ) तत्राभयं नाम इष्टानिष्ट-
संयोग-वियोगहेतु-दर्शनजन्यं यदुःखभयं तद्राहित्यं, यद्वा शास्त्रोपदिष्टार्थे
संदेहं विनानुष्ठाननिष्ठत्वं । सत्वस्यांतःकरणस्य सम्यक्छुद्धिः निर्मलता
सत्वसंशुद्धिः। शुद्धेः सम्यक्त्वं नाम भगवत्तत्वस्फूर्ति-योग्यत्वं । शास्त्रा-
चार्योपदेशाभ्यां आत्मतत्वावगतिः ज्ञानं । अवगतस्यार्थस्य चित्तैकाग्रतया
स्वानुभवारूढत्वापादनं योगः । तयोविशेषेणावस्थितिः सदा तन्निष्ठता
ज्ञानयोगव्यवस्थितिः । यथाधिकारं स्वद्रव्यस्य पात्रे प्रतिपादनं दानं ।
बाह्येन्द्रिय-संयमो दमः । श्रौतः अग्निहोत्रदर्शपूर्णमासादिः, स्मार्तश्च
देवयज्ञः पितृयज्ञः भूतयज्ञः मनुष्ययज्ञ इति चतुर्विधो यज्ञो यज्ञः, ब्रह्मयज्ञस्य
स्वाध्यायपदेन पृथगुक्तेः । स्वाध्यायो ब्रह्मयज्ञः अदृष्टार्थमृग्वेदाद्यध्ययन-
रूपः। तपः शारीरादिभेदेन त्रिविधं । "देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवं ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते । अनुद्वेगकरं वाक्यं सत्यं प्रियहितं
च यत् । स्वाध्यायाभ्यासनं चैव वाङ्मयं तप उच्यते । मनःप्रसादः
सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते
इति । अवक्रत्वमार्जवं मनोवाक्कायवृत्तीना-मैकरूप्यमिति यावत् ।
परपीडावर्जनमहिंसा । यथादृष्टवचनं सत्यं । परैराक्रोशे ताडने वा
कृते सति सद्यः प्राप्तस्य क्रोधस्य तत्कालमुपशमनं अक्रोधः । दानस्य
प्रागुक्तेः त्यागो दुःखसंगपरित्यागः । शान्तिरंतरिन्द्रियोपरतिः । पर-
दोषप्रकाशनं पैशुनं तदभावोऽपैशुनम् । दुःखितेषु भूतेषु तदीयदुःखा-
सहिष्णुत्वं दया । अलोलुत्वं अलोलुपत्वं इन्द्रियाणां विषयसन्निधानेप्य-
विक्रियत्वं इति यावत् । पवर्णलोप आर्षः । अलोलुप्त्वमिति वा पाठः।
मृदुत्वं मार्दवं साधुजनसंश्लेषार्हतेत्यर्थः । अकार्यकरणे लज्जा हीः ।
वृथाचेष्टाराहित्यं अचापलं । प्रागल्भ्यं तेजः स्त्रीवालकादिमूढजनैः
अनभिभवनीयत्वमित्यर्थः । सत्यपि सामर्थ्य परिभवहेतुं प्रति क्रोधानुत्पत्तिः