2023-02-20 14:42:44 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
भगवान्वासुदेव इति निश्चयेन अत एव स्वात्मभूते मयि अव्यभि
चारिणी ऐकान्तिकी भक्तिः । विविक्तः शुद्धः चित्तप्रसादको यो देशः
तत्सेवित्वं जनानां वैषयिकाणां संसदि रत्यभावः । आत्मानमधिकृत्य
प्रवृत्तं आत्मानात्मविवेकज्ञानं अध्यात्मज्ञानं तस्मिन्नित्यत्वं तत्रैव निष्ठा ।
त्वंपदार्थशोधनैकपरत्वमिति यावत् । पदार्थविवेकपरस्य वाक्यार्थ-
ज्ञानाधिगमात् । तत्त्वज्ञानस्य वाक्यार्थज्ञानरूपस्य योर्थः फलं मोक्षः तस्य
दर्शनमालोचनम् । तत्वज्ञानफलालोचने हि तत्साधने प्रवृत्तिः स्यादिति
भावः । अत्र यद्यपि यमघटकीभूतायाः अहिंसाया: नियमघटकस्य शौचस्य
च घटनमस्ति तथापि उत्तरत्र नियमायमाद्या इत्यत्र तदुभयातिरिक्तस्यैव
ग्रहणं संभवतीति बोध्यम् । नियमा: "शौचसंतोष-तपस्स्वाध्यायेश्वर- प्रणि-
धानानि नियमाः" इति सूत्रानुसारेण शौचादयः जन्महेतून् काम्यधर्मान्निवर्त्य
मोक्षहेतौ निष्कामे धर्मे नियमयन्ति प्रेरयन्तीति नियमा इत्युच्यन्ते । तत्र शौचं
पूर्वं निरुक्तं । संतोषः यथालाभपरितुष्टिः । तपः कायशोषणं तदुक्तं योगयाज्ञ-
वल्क्ये " विधिनोक्तेन मार्गेण कृच्छचान्द्रायणादिभिः । शरीरशोषणं प्राहुः
तापसाः तप उत्तमं " इति । स्वाध्यायः प्रणवगायत्रीप्रभृतीनां मन्त्राणां
जपः। ईश्वरप्रणिधानं अभिहितानां अनभिहितानां च सर्वासां क्रियाणां
परमेश्वरे फलानपेक्षतया समर्पणं । तदुक्तं " कामतोऽकामतोवापि यत्करोमि
शुभाशुभं । तत्सर्वं त्वयि विन्यस्य त्वत्प्रयुक्तः करोम्यहं इति । फलाभिसंधेः
उपघातकत्वमभिहितं महद्भिः "अपिप्रयत्नसंपन्नं कामेनोपहंतं तपः । न
तुष्टये महेशस्य श्वलीढमिव पायसम्" इति । एतानि पंच नियमाः ।
यमाः "अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहाः यमाः " इति सूत्रानुसारेण
अहिंसादय: पंच । तत्र अहिंसा विवृता । सत्यं सर्वदा अनृतानभि-
भाषणम् । अस्तेयं परस्वानपहारः । ब्रह्मचर्यं अष्टविधमैथुनत्यागः ।
अपरिग्रहः शरीरस्थितिमात्र हेतुव्यतिरिक्त-भोगसाधनास्वीकारः । यमा
आद्या येषां आसन-प्राणायाम-प्रत्याहारधारणाध्यान-समाधीनां तेपि
समाध्यतानि योगांगानि आदिपदेन गृह्यते । श्रद्धा सर्वश्रेयोनिदानं
आस्तिक्यबुद्धिः । भक्तिः सा परापरभेदेन द्विविधा अपरैव साधनभक्ति-
रित्युच्यते भक्त्या संजातया भक्त्या बिभ्रत्युत्पुलकां तनुं " इति
भागवतोक्तेः । 'श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनं ।
वंदनं दास्यं सख्यमात्मनिवेदनम् । " इति नवविधा भक्तिः परमप्रेम-
"
((
"
(8
अर्चन
८०