This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
मिश्रस्य सत्त्वस्य भवन्ति धर्मास्त्वमानिताद्या नियमा यमाद्याः ।
श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च संपत्तिरसन्निवृत्तिः ॥१२०॥
 
७९
 
मिश्रस्य सर्वात्मना तमश्शून्यस्य ईषद्रजोमिश्रस्य सत्त्वस्य इत्यर्थः ।
ताभ्यां अभिभूयमानत्वे वक्ष्यमाण-गुणसत्वानुपपत्तेः । तुशब्दः इतरगुणद्वयस्य
ताभ्यामभिभूयमानसत्वस्य च व्यावर्तकः । अमानिता आद्या येषां
अदंभित्वादीनां ते, ते कथिता गीतायां अमानित्व-मदंभित्व-महिंसा-
क्षान्तिरार्जवं। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः । इन्द्रियार्थेषु
वैराग्यमनहंकार एवच ।
 
(6
 
असक्तिरनभिष्वंगः पुत्रदारगृहादिषु ।
 
जन्ममृत्युजराव्याधि-दुःखदोषानुदर्शनम् ।
नित्यं च समचित्तत्व-मिनिष्टा-
निष्टोपपत्तिषु । मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्त-
देशसेवित्व-मरतिर्जनसंसदि । अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनं
इति । तत्र अमानित्वं, विद्यमानैरविद्यमानैर्वा गुणै: आत्मनः श्लाघारूप-
संमानं मानत्वं तद्राहित्यममानित्वं । ख्यातिलाभपूजार्थं स्वधर्मप्रकटनं दंभः
तद्रहितत्वं अदंभित्वं । त्रिकरण्या परपीडावर्जनं अहिंसा । परैरभिभूय-
मानस्यापि तान्प्रत्यविकृतचित्तत्वं क्षान्तिः । मनोवाक्कायानां ऐकरूप्य
मार्जवं । प्रणिपात-परिप्रश्न-सेवादिभिः आचार्यानुवर्तनं आचार्योपासनं ।
बाह्यमलानां मृज्जलाभ्यां अंतर्मलानां रागादीनां मैत्र्यादिवासनया विषय-
दोषदर्शनाभ्यासेन च प्रक्षालनया बहिरंतरशुचित्वं । स्थैर्यं मुक्तिसाधन-
प्रवृत्तस्य विघ्नसंभवेपि तदपरित्यागेन पुनःपुनर्यत्नाधिक्यम् । आत्म-
विनिग्रहः आत्मनः देहेन्द्रियादे: मोक्षसाधनप्रातिकूल्य-स्वभावनिरोधनेन
तदनुकूलतया व्यवस्थापनं । इन्द्रियार्थेषु शब्दस्पर्श रूपादिषु दृष्टानुश्रविकेषु
वैराग्यं । अनहंकारः अहमेव सर्वोत्कृष्ट इति गर्वराहित्यं । जन्ममृत्यु-
जरेति, गर्भवासयोनिद्वारा निस्सरणं जन्म, मृत्युः सर्वमर्मच्छेदनरूपः, जरा
बुद्धिवलतेजोनाशसर्वपरिभवरूपा । व्याधयो ज्वरादयः । दुःखानि अनिष्ट
संयोगेष्टवियोग-जान्यान्याध्यात्मिकादीनि । दोषास्तु वातपित्तश्लेष्माणः
मलमूत्रदुर्गन्धरूपाश्च तेषामनुदर्शनं पुनःपुनरालोचनं । असक्तिः
 
पुत्रादिषु प्रीतित्यागः । तेष्वनभिष्वंगः तेषां सुखे दुःखे अहमेव सुखी
दुःखीत्यध्यासाभावः । इष्टानिष्टयोरुपपत्तिषु प्राप्तिषु । नित्यं सर्वदा
समचित्तत्वं हर्षविषादशून्यत्वं । अनन्ययोगेन अपृथक्समाधिना अहमेव
 
"