This page has not been fully proofread.

७८
 
श्रीविवेकचूडामणिः सव्याख्यः
 
यथावस्थितविषये
 
अयथावत्प्रतिपत्तिः ।
 
आलस्य - जडत्व - निद्राप्रमाद-
मूढत्वानि मुखानि येषां ते संशयादीनां ते तमोगुणाः तमः कार्याणि ।
तदुपपादयति, एतैः अज्ञानादिभिः धर्में प्रयुक्तः विशिष्ट: किंचिदपि नहि
वेत्ति जानाति । निद्रालुवत् यथा सुप्तो न किंचिद्वेत्ति तथा स्तंभवदेव
तिष्ठति श्रेयसे किमपि न चेष्टत इत्यर्थः । प्राप्तज्ञायमानताकस्य अज्ञानं
प्रमाद:, प्राप्तकर्तव्यताकस्य अकरणमालस्यं इति वा भेदः ॥ ११८॥
 
एवं राजसानां तामसानां च धर्माणां अत्यंतं श्रेयोविधातकत्वकथनेन
सत्वं गुणं सम्यगाश्रित्य तयोर्द्वयोरपि गुणयोः अत्यंतं परित्यागः कार्य
इत्युक्तं भवति । अधर्मोपि जिज्ञास्यः परिहारायेति न्यायेनैव तेषामेवं
विवरणं । इदानीमुपादेयत्वाय सत्वकार्याणि वक्तुं सत्वस्वभावं वर्णयति ।
सत्त्वमिति
 

 
सत्त्वं विशुद्धं जलवत्तथापि
 
ताभ्यां मिलित्वा सरणाय कल्पते ।
यत्रात्मबिंब: प्रतिबिंबितः सन्
 
प्रकाशयत्यर्क इवाखिलं जडम् ॥११९ ॥
 
तथापीत्युत्तरत्र सत्वात् आदौ यद्यपीति पठितव्यम् । यद्यपि जलवत्
यथा जलं स्वभावतो निर्मलं तथा सत्वंगुणः विशुद्धं निर्मल एव । तथापि
ताभ्यां रजस्तमोभ्यां मिलित्वा सरणाय ससांराय कल्पते प्रभवति ।
तस्य विशुद्धि स्पष्टयति यत्रेति । आत्मविवः आत्मैव विव: मुखादिवत् ।
यथा निर्मले जले साभ्रनक्षत्र आकाशः प्रतिफलितः स्पष्टं भासते यथा वा
निर्मले दर्पणे मुखं तथा शुद्धे सत्वे प्रतिबिंबितस्सन्नात्मा अर्कवत् सूर्यवत्
निर्मलदर्पणे प्रतिबिंबितसूर्य इव वा अखिलं जडं सर्वमनात्मानं, प्रकाशयति
ज्ञातस्वरूपं करोति "सत्त्वात् संजायते ज्ञानं " इति स्मृतेः ।
सर्वद्वारेषु
देहेस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्यात् विवृद्धं सत्वमित्युत
इति च ॥ ११९॥
 
((
 
मिश्रस्येति ।
 
"
 
रजस्तमसोः सत्वेपि ताभ्यामनभिभूयमानस्य सत्त्वस्य गुणानाह ।