This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
यस्य दुरंतं तच्च तत्तमश्च तस्य अनर्थपर्यवसायिनः तमोगुणस्य आवृतिः

महती शक्तिः सत्वोत्कर्षं विना दुर्निरसा । विक्षेपशक्त्यपेक्षया प्रबला

अत्यंतं मोहहेतुत्वादिति भावः । आवृतिः आवरणम् नाम ॥११६॥
 
७७
 

 
श्रवणमनन-निदिध्यासन-जन्यज्ञाननाश्यत्वं तस्याः वक्तुं तत्त्रितय -

निरस्यदोषहेतुरियं प्रत्यगभिन्न - -ब्रह्मणि असंभावनां अनात्मनि शरीरादौ

विपरीतात्मत्वभावनां श्रुत्याचार्योक्तार्थे संशयांश्चोत्पाद्य बहुधा मनः

विक्षिपन्ती पुमांसं अभासमानस्वस्वरूपं कुर्वती नाशयतीत्याह । अभाव -
-
नेति ॥
 

 
अभावना वा विपरीतभावना संभावना विप्रतिपत्तिरस्याः ।
 

संसर्गयुक्तं न विमुंचति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम् ॥११७॥
 

 
अभावना शास्त्रेणोच्यमानं जीवब्रह्मैक्यं प्रपंच-मिथ्यात्वं च न

संभवतीति भावना । नास्तीति भावना वा नास्तिक्यमिति यावत् ।

विपरीतभावना शरीरादौ आत्मत्वभावना । विप्रतिपत्तिः विरुद्धप्रतिपत्तिः ।

संभावना संशयभावनेत्यर्थ: । एकधर्मि-विशेष्यक-विरुद्धनानाधर्म-प्रकारक-

ज्ञानं संशय इति तल्लक्षणात् । एतत्त्रयं अस्याः आवरणशक्तेः संसर्गयुक्तं

संबंध -युक्तं नरं । धूवं न विमुंचति नैव विमुंचतीत्यर्थ: । तादृशं पुमांसं विक्षेप-
शक्ति: अजस्रं
विक्षेप-
शक्ति: अजस्रं स
र्वदा क्षपयति
"अज्ञश्चाश्रद्धधानश्च संशयात्मा
विनश्यति" इति गीतोक्तेः ॥ ११७ ॥
 

 
इदानीं तमोगुणकार्याणि विशदयति । अज्ञानेति ।
 
((
 

 
अज्ञानमालस्य-जडत्वनिद्रा-प्रमादमूढत्वमुखा-स्तमोगुणाः ।

एतैः प्रयुक्तो नहि वेत्ति किंच-न्निद्रालुवत्स्तंभवदेव तिष्ठति ॥ ११८॥
 
,
 

 
अज्ञानं उक्तस्याप्यर्थस्याप्रतिपत्तिः, गीतोक्तं " एतज्ज्ञानमिति प्रोक्तं

अज्ञानं यदतोन्यथा " इति मानित्वादिकं वा । आलस्यं अनुद्यमः, जडत्वं

कार्यकरणेष्वपाटवं । निद्रा प्रसिद्धा, "अभावप्रत्ययालंबना वृत्तिर्निद्रेति "

सूत्रिता । यस्मिन्नावारके तमसि सति वस्त्वभावः प्रतीयते तत्तमोभाव-

प्रत्ययः तं विषयीकुवंर्वती वृत्तिर्निद्रा । प्रमाद: कर्तव्यं कर्म कर्तुं शक्तावपि

अकरणं तस्य, अजागरूकता "प्रमादोनवधानता" इति कोशात् । मूढत्वं