2023-02-20 14:42:44 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
यस्य दुरंतं तच्च तत्तमश्च तस्य अनर्थपर्यवसायिनः तमोगुणस्य आवृतिः
महती शक्तिः सत्वोत्कर्षं विना दुनिरसा । विक्षेपशक्त्यपेक्षया प्रबला
अत्यंतं मोहहेतुत्वादिति भावः । आवृतिः आवरणम् नाम ॥११६॥
७७
श्रवणमनन-निदिध्यासन-जन्यज्ञाननाश्यत्वं तस्याः वक्तुं तत्त्रितय -
निरस्यदोषहेतुरियं प्रत्यगभिन्न - ब्रह्मणि असंभावनां अनात्मनि शरीरादौ
विपरीतात्मत्वभावनां श्रुत्याचार्योक्तार्थे संशयांश्चोत्पाद्य बहुधा मनः
विक्षिपन्ती पुमांसं अभासमानस्वस्वरूपं कुर्वती नाशयतीत्याह । अभाव -
नेति ॥
अभावना वा विपरीतभावना संभावना विप्रतिपत्तिरस्याः ।
संसर्गयुक्तं न विमुंचति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम् ॥११७॥
अभावना शास्त्रेणोच्यमानं जीवब्रह्मैक्यं प्रपंच-मिथ्यात्वं च न
संभवतीति भावना । नास्तीति भावना वा नास्तिक्यमिति यावत् ।
विपरीतभावना शरीरादौ आत्मत्वभावना । विप्रतिपत्तिः विरुद्धप्रतिपत्तिः ।
संभावना संशयभावनेत्यर्थ: । एकधर्म-विशेष्यक-विरुद्धनानाधर्म-प्रकारक-
ज्ञानं संशय इति तल्लक्षणात् । एतत्त्रयं अस्याः आवरणशक्तेः संसर्गयुक्तं
संबंध युक्तं नरं । धूवं न विमुंचति नैव विमुंचतीत्यर्थ: । तादृशं पुमांस विक्षेप-
शक्ति: अजस्रं सर्वदा क्षपयति
अज्ञश्चाश्रद्धधानश्च संशयात्मा
विनश्यति" इति गीतोक्तेः ॥ ११७ ॥
इदानीं तमोगुणकार्याणि विशदयति । अज्ञानेति ।
((
अज्ञानमालस्य-जडत्वनिद्रा-प्रमादमूढत्वमुखा-स्तमोगुणाः ।
एतैः प्रयुक्तो नहि वेत्ति किंच-न्निद्रालुवत्स्तंभवदेव तिष्ठति ॥ ११८॥
,
अज्ञानं उक्तस्याप्यर्थस्याप्रतिपत्तिः, गीतोक्तं " एतज्ज्ञानमिति प्रोक्तं
अज्ञानं यदतोन्यथा " इति मानित्वादिकं वा । आलस्यं अनुद्यमः, जडत्वं
कार्यकरणेष्वपाटवं । निद्रा प्रसिद्धा, "अभावप्रत्ययालंबना वृत्तिनिद्रेति "
सूत्रिता । यस्मिन्नावारके तमसि सति वस्त्वभावः प्रतीयते तत्तमोभाव-
प्रत्ययः तं विषयीकुवंती वृत्तिनिद्रा । प्रमाद: कर्तव्यं कर्म कर्तुं शक्तावपि
अकरणं तस्य, अजागरूकता "प्रमादोनवधानता" इति कोशात् । मूढत्वं