2023-02-25 03:38:07 by Vasant
This page has been fully proofread once and needs a second look.
अभावे विक्षेपशक्तिरकिंचित्करेत्याह विक्षेपशक्तेः प्रसरस्य हेतुरिति ।
आवृते: रज्जुस्वरूपे सर्परूप-विक्षेप उत्पद्य भयादिकं जनयति नान्यथेति
भावः । अत एव ज्ञानिनां भग्नावरणत्वात् प्रारब्धकर्मात्मकविक्षेपसत्वेपि
बन्धाभावः । इदं तावत् "कबलितदिननाथे " इति श्लोके स्पष्टं ज्ञास्यते ।
लोकेपि क्वचिद्वस्तुनि संशयो वा विपर्ययो वा यस्य तस्यैव विक्षेपक्षोभ्य-
माणत्वं। यस्य निष्कृष्टं ज्ञानं तस्य विक्षेपः नैव भवति । अतः तमोगुण-
शक्तिः स्वरूपमावृत्य अन्यथा तद्वस्त्ववभासयन्ती विक्षेपजनन-द्वारा
बन्धहेतुरिति भावः ॥ ११५॥
बंधहेतु-शक्तिद्वयमध्ये अस्याः प्राबल्यमाह । प्रज्ञावानपीति ।
प्रज्ञावानपि पण्डितोपि चतुरोप्यत्यन्त सूक्ष्मार्थदृ-
ग्व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोपि स्फुटम् ।
भ्रान्त्यारोपितमेव साधु कलयत्यालंबते तद्गुणान्
हंतासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥११६॥
प्रज्ञावान् "प्रज्ञा त्रैकालिकी मता" इति मानात् कालत्रयेपि
निश्चलबुद्धिमानित्यर्थः । सोपि पण्डितोपि शास्त्रजन्यज्ञानं परोक्षं पण्डा
सास्य संजातेति पण्डितः तथाविधोपि, चतुरोपि ऊहापोहविचक्षणोपि ।
अत्यन्तसूक्ष्मार्थंदृक् प्रज्ञापाण्डित्य-चातुर्याणां अत्यंतसूक्ष्मार्थ-दृक्त्वे हेतुत्वं
ज्ञेयम् । सर्वदा निश्चलबुद्धिमता शास्त्रसाहाय्येन ऊहापोहकौशलेन च
अत्यंतसूक्ष्मान् पदार्थानपि ग्रहीतुं शक्यत्वात् । एतादृगपि पुरुषः तमसा
व्यालीढः विशेषेण आ समंतात् लीढः आवृतस्वरूपः इत्यर्थः । पटुचक्षुरपि
गाढान्धकारे किं कुर्यादिति भावः । बहुधा संबोधितोपि स्फुटं न वेत्ति
"शृण्वंतोपि बहवो यं न विद्युः" "नायमात्मा बलहीनेन लभ्यः न
मेधया न बहुना श्रुतेन आश्चर्यवत्पश्यति कश्चिदेनं " इत्यादिश्रुतेः ।
भ्रान्त्या अतस्मिंस्तद्बुद्ध्या आरोपितमेव स्थूलादिदेहं साधु कलयति
अवाधितं जानाति । आलंबते तद्गुणान् पूजावमानादीन् दृढत्वारोगत्वा-
दीन् कर्तृत्वादीन् सूक्ष्मदेहगतांश्च । इदं तावदनुभवसिद्धं किल लोकेयत्
श्रुत्या आचार्यैश्च आत्मव्यतिरिक्तं सर्वं मिथ्येत्युच्यमानेपि न भ्रान्ति-
र्जनानां नष्टेति । हंत कष्टं । असौ दुरंततमसः दुष्ट: अन्तः पर्यवसानं