2023-02-20 14:42:31 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
"
ज्ञात: ? अत एव "यो ब्रह्माणं विदधाति पूर्वं, यो वै वेदांश्च प्रहिणोति
तस्मै " इति प्रथमं सृज्यमानस्य हिरण्यगर्भस्यापि ईश्वरानुगृहीतवेद-
मूलकमेव धर्मज्ञानमिति बोधयति श्रुतिः । किं वक्तव्यमितरेषां !
अतस्सुष्ठुक्तं वैदिकेति । अब्भक्षा वायुभक्षा " इतिवत् वेदैकमेयत्वं
धर्मस्य बोधयति । अत्र धर्मशब्देन प्रवृत्तिधर्म: निवृत्तिधर्मश्च कथ्यते ।
उक्तं हि गीताभाष्ये "द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्ति-
लक्षणश्च " इति ॥
"
४
(6
-
(6
धर्म एव परमं साधनं नित्यसुखावाप्तौ नान्यदपेक्ष्यमस्तीति कर्म-
मीमांसकाः, तान् कटाक्षयति मार्गेति । तेन परमपुरुषार्थ -साधनीभूत-
ब्रह्मसाक्षात्कार - साधनवेदान्त- विचारहेतुत्वेन संन्यासरूपनिवृत्तिधर्मस्य
तत्साधनवैराग्य हेतुभूत चित्तशुद्धिहेतुत्वेन निष्कामकर्मानुष्ठान-रूप-
प्रवृत्तिधर्मस्य च अपेक्षितत्वं, न तु साक्षान्निरतिशय-सुखसाधनत्वं
तदुभयस्येति सूचितम् । तदुक्तं भगवता बादरायणेन " द्वाविमावथ
पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्म: निवृत्तिश्च
प्रकीर्तितः " इति । तथाच ब्राह्मणेन उपनयनानन्तरं वेदो नित्य-
मधीयतां तदुदितं कर्म स्वनुष्ठीयतां, तेनेशस्य विधीयतामपचितिः काम्ये
मतिस्त्यज्यतां । पापौघः परिधूयतां भवसुखे दोषोनुसंधीयतां, आत्मेच्छा
व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ संग: सत्सु विधीयतां
भगवतो भक्तिर्दृढाधीयतां, शान्त्यादिः परिचीयतां दृढतरं कर्माशु
संत्यज्यताम् " ॥ इति सोपानपंचकोपदिष्ट रीत्या ईश्वरार्पणबुध्या
कर्म कुर्वाणेन चित्तं शोधयित्वा विषयेभ्यो विरज्य कर्मभ्य-स्समुपरमितव्यं
इत्येतद्बोधितम् । तदुक्तं मोक्षधर्मेषु "नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततश्चोपरतिः
क्रियाभ्य: " इति ॥ विद्वत्वमस्मात्परं । तत्र प्रवृत्तिधर्मविषये एवं
योजना । "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति
इति छान्दोग्यश्रुत्या क्रियमाणं कर्म, तदंगभूत मन्त्रार्थज्ञानपुरस्सरं क्रियते
चेत् भूयसे फलायेति बोधितं भवति । तदुक्तं तत्रैव भाष्ये "दृष्टं हि
लोके वणिक्छबरयो: पद्मरागमणिविक्रये वणिजो विज्ञानाधिक्यात्फला-
धिक्यमइति " । निवृत्तिधर्मविषये "संन्यस्य श्रवणं कुर्यात् " इति
विधानात् संन्यासोत्तरकालिक - वेदान्तवाक्य - श्रवणजन्य - परोक्षज्ञानवत्वं
""