This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
७५
 
कामः क्रोधो
 
लोभदम्भाभ्यसूयाऽहंकारेर्ष्या-मत्सराद्यास्तु घोराः ।

धर्मा एते राजसाः पुंप्रवृत्ति - र्यस्मादेतत्तद्रजो बन्धहेतुः ॥ ११४॥
 

 
कामः विषयेच्छा, क्रोधः तदभिघाते जायमान-मानसवृत्तिः

कोपाख्या । लोभः अर्थस्य प्राप्तौ तत्संरक्षणमतिः । दंभः धर्मध्वजित्वं ।

अभ्यसूया परोत्कर्षासहनं । अहंकार: स्वोत्कृष्टत्वज्ञानं । ईर्ष्या गुणेषु

दोषाविष्करणं । मत्सरः अक्षीयमाण-वस्त्वपरित्यागेच्छा । यथा
 
रजः
 
66
 

राजकीयोदपानात् नोदकं पाः इति वृत्तिः । आदिपदेन मद-

दर्पादि-परिग्रहः । एते लोकद्वयेपि भयहेतवः अत एव घोरा इत्युक्तम् ।

यस्मात्कामक्रोधादिविशिष्ट: पुमान् न प्रवृतविरमति कदाचिदपि, सर्व-

दापि यत्किकिंचित्कुर्वाण एवावतिष्ठते अतः एते धर्मा राजसाः ।
रजः
कर्मणि भारत संजयति इत्युक्तत्वाद्गीतायां सर्वदा यत्किकिंचित्कर्महेतूनां

एतेषां राजसत्वं । प्रवर्तनालक्षणा दोषा: " इति न्यायसूत्रं । सर्वतो

निवृत्तौ हि सुखं । अत्र कस्यापि निवृत्तिप्रयोजकत्वभावाच्च। "लोभः

प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ

इत्यपि गीता । यस्मात् पुंप्रवृत्तिः एतत् सर्वजनानुभवसिद्धं तत्

मायागुणत्वेन कथितं रजः न्धहेतुः । कार्यकरणसंघाताध्यासस्यैव बन्धक-

त्वात् अध्यासं विना कर्मासंभवात् रजसः न्धहेतुत्वं विज्ञेयम् ।
"न
ह्यनध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते " इत्यध्यासभाष्यात्
 

 
॥११४॥
 
"
 

 
इदानीं तमसः शक्तितिं आवृतितिं विक्षेपशक्ति प्रसरहेतुं सकल-संसारादि-

कारणं निरूपयति । एषेति ।
 

 
एषावृतिर्नाम तमोगुणस्य शक्तिर्यया वस्त्ववभासतेऽन्यथा ।

सैषा निदानं पुरुषस्य संसृतेः विक्षेपशक्तेः प्रसरस्य हेतुः ॥ ११५ ॥
 

 
यया शक्त्या वस्तु अन्यथा अवभासते सच्चिदानन्दरूपं वस्तु

अन्तःकरणदेहादिरूपेण भासते एषा आवृतिः आवरणं नाम तमोगुणस्य

शक्तिः । पुरुषस्य संसृतेः दुःखजन्म-जरामरणादिरूपायाः, निदानं आदि-

कारणं । भ्रान्त्या किलानात्मधर्मान् असंसारिणि मन्यते । अतः अयथा-

वस्त्ववभासरूप-भ्रान्तिहेत्वावरणशक्तिरेव संसारनिदानं । एतस्याः