2023-02-20 14:42:43 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
क्रमेण रजस्तमस्सत्वगुणानां कार्याणि विवक्षन् आदौ रजोगुण-
कार्याण्याह। विक्षेपेति ।
७४
विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृतापुराणी ।
रागादयोस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः ॥११३॥
मायायां सन्ति तिस्रः शक्तयः । विक्षेपशक्तिः आवरणशक्तिः
ज्ञानशक्तिश्चेति तत्राद्ययोः बन्धकर्तृत्वं तृतीया मोक्षहेतुः । तत्र विक्षेप-
शक्तिः रजसः रजोगुणस्य, क्रियात्मिका कार्यरूपा । यदा उद्रिच्यते रजः
तदा विक्षेपाः बहुधा भवन्तीति ज्ञेयमित्यर्थः । यतः रजः कार्यभूत - विक्षेप -
शक्तेस्सकाशात् पुराणी अनादिकालसिद्धा प्रवृत्तिः संसारहेतुभूता प्रवृत्तिः
प्रसृता विस्तृता, सा जीवीया वा प्रपंचसृष्टिहेतुभूता ईश्वरीया वा
भवतु प्रपंचसृष्टिरेपि विक्षेपशक्तिकार्यत्वात् । तत्रेश्वरस्य शुद्धसत्व-
प्रधान-मायोपहितत्वात् तस्याः स्वाधीनत्वाच्च न बन्धस्य प्रसक्तिरिति ।
जीवस्य तु मलिनसत्वप्रधानाविद्योपाधिकत्वात् ज्ञानशक्तेः रजस्तमोभ्यां
प्रतिहन्यमानत्वात् उपाध्यधीनत्वं तत्कृतवन्धवत्वं चेति । रागादय
इत्यादिकं जीवविषये ज्ञेयम् । अस्याः रजःकार्यविक्षेपशक्तेः : सकाशात्
रागादयः रागद्वेषादिदोषाः प्रवृत्तिहेतवः नित्यं जीवस्य प्रभवन्ति । ततः
येमनसो विकारा: दुःखादयः, दुःखहर्षतर्षामर्षादय: मनस एव नतु
कदाचिदपि निर्विकारस्यात्मनः इति बोधयितुं मनस इत्युक्तं, कामः
संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिः ह्रीर्धीर्भीरित्येतत्सर्वं मन
एव " इति श्रुतेः । तत्तादात्म्याध्यासात् जीवे कल्प्यंते न वस्तुतः तत्र
सन्ति साक्षी चेता केवलो निर्गुणश्च " 'नान्योतोस्ति द्रष्टा
"निष्कलं निष्क्रियं शान्तम्" इत्यादिश्रुतेः ॥ ११३॥
((
(6
(6
"
इदानीं रागादय इत्यत्र आदिपदग्राह्यान् रजः कार्य-विक्षेपशक्ति-
कार्यत्वेन राजसान् धर्मान् तेषां घोरत्वेन दुःखहेतुत्वं तेषां संततप्रवृत्ति
हेतुत्वेन तन्मूलस्य रजसः बन्धकत्वं चाह । काम इति ।